कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 585, कुल 1079 में से
संदर्भ में पढ़ें५३८ कथासरित्सागर
सा पुनरधिगतविद्या दीप्तानङ्गप्रभापि तनैव।
देहेनान्येन वभौ जाता विद्याधरी झगिति ॥४ ६॥
सानन्दो मदनप्रभ स च ततः सा चाप्यनङ्गप्रभा।
दिव्यान्योन्यवपुर्विलोकनरुसवोढानुरागावुभौ ।
स श्रीमान् समरश्च खेचरपतिः सर्वे समुत्पत्य खम्।
जग्मुर्वीरपुरं सहैव किल तं वेद्याधरं तत्पुरम् ॥४०७॥
स तत्र समरो यथाविधि सुतामनङ्गप्रभां
तदैव मदनप्रभप्रचुरभूमृते तां ददौ ॥
स च क्षपितशापया सममथैतया प्रीतया
जगाम मदनप्रभः स्वपुरमत्र चासीत् सुखम् ॥४०८॥
इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके ।
भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ॥४ ९
इति स कथां नरवाहनदत्त सचिवान्निराम्य गोमुखतः ।
सालङ्कारवतीकस्तुतोष चक्रं सततश्च दिनकृत्यम् ॥४१ ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीकम्बके
द्वितीयस्तरङ्गः।
तृतीयस्तरङ्गः
नरवाहनदत्तस्य कार्पटिकस्य च कथा
ततोऽप्यथुरलङ्कारवतीपार्श्वस्थितं सखा।
नरवाहनदत्तं तं मरुभूतिर्व्यजिज्ञपत् ॥१॥
पश्य पश्य वराकोऽयं देव कार्पटिकस्तव।
चर्मसण्डैकवसनो जटाभ्रः कृशधूसरः ॥२॥
सिंहद्वाराद्विवारात्रं शीते वाप्यातपेऽपि वा।
न चलत्येव तन्नास्य किमद्यापि प्रसीदसि ॥३॥
काले दत्तं वरं ह्यल्पमकाले बहुनापि किम्।
तद्यावन्न्म्रियते नैष तावदस्य कृपां कुरु ॥४॥