कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 581, कुल 1079 में से
संदर्भ में पढ़ें५३४ कथासरित्सागर
इत्यादि पित्रा प्रोक्तोऽपि तमनुज्ञाप्य यत्नतः।
समुद्रवर्मा स ययौ तेजस्वी दिग्विजयया ॥३७६॥
क्रमेण च दिशो जित्वा स्थापयित्वा वशे नृपान्।
प्राप्तहस्त्यश्वहेमादिराययौ नगरं निजम् ॥३७७॥
तत्र पित्रोर्महारत्नैर्नानादेशोद्भवैश्च सः।
चरणौ पूजयामास प्रणतः परितुष्टयोः ॥३७८॥
तदाज्ञया च प्रददौ ब्राह्मणेभ्यो महायशाः।
महादानानि हस्त्यश्वहेमरत्नमयानि सः ॥३७९॥
ततो वसु सखिभ्यो भृत्यभ्यश्च ववर्ष सः।
एको दरिद्रशब्दोऽत्र यथामूद्यर्थवर्जितः ॥३८०॥
तद्दृष्ट्वा पुत्रमाहात्म्यमात्मनः कृतकृत्यताम्।
राजा सागरवर्मा स मेनेऽङ्गप्रभायुतः ॥३८१॥
उत्सवेन च नीत्वा तान्यहानि नृपतिः स तम्।
पुत्रं समुद्रवर्माणमवोचन्मन्त्रिसन्निधौ ॥३८२॥
यन्मया पुत्र कर्तव्यं कृतं तदिह जन्मनि।
भुक्तं राज्यसुखं दृष्टं परेभ्यो न पराभवः ॥३८३॥
दृष्टस्त्वत्तत्साम्राज्यं किमप्यत् प्राप्यमस्ति मे।
तदाश्रयाम्यहं तीर्थं यावन्न ध्रियते तनुः ॥३८४॥
विनश्वरे शरीरेऽस्मिन् किमद्यापि गृहे तव।
इतीवेषा जरा पश्य कर्णमूले ब्रवीति मे ॥३८५॥
इत्युक्त्वा स सुतेऽनिर्बन्धयत्यपि तस्मिन् नृपः कृती।
ययौ सागरवर्माऽथ प्रयागं प्रियया सह ॥३८६॥
समनुव्रज्य पितरं स चागत्य निजं पुरम्।
समुद्रवर्मा स्वं राज्यं यथाविधि शशास तत् ॥३८७॥
राजा सागरवर्माऽपि सोऽनङ्गप्रभया युतः।
प्रयागे तपसा देवं वृषध्वजमतोषयत् ॥३८८॥
स स्वप्ने तमुवाचेव त्रिपुरारिनिशाक्षये।
तुष्टोऽस्मि ते सभार्यस्य तपसा तदिदं शृणु ॥३८९॥
एषानङ्गप्रभा त्वं च युवां विद्याधरावुभौ।
शापक्षयान्निजं लोकं प्रातः पुत्र गमिष्यथः ॥३९०॥