सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 565, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 565

५२४ कथासरित्सागर

तच्छ्रुत्वान्यादृशं भावमुपलब्ध्य तयोर्द्वयोः।
सुदर्शनोऽब्रवीन्नाहं भोजनेऽद्य पटुः¹ स्थितः ॥३०३॥
वणिक्पतिस्ततोऽवादीत्तर्हि त्वद्वनिता सखे।
भुङ्क्तां प्रथममस्माकमेषा हि गृहमागता ॥३०४॥
इत्युक्तस्तेन तूष्णीं स बभूव कितवोऽपि सन्।
स चानङ्गप्रभायुक्तो ययावभ्यन्तरं वणिक् ॥३०५॥
तत्र चक्रे तया साकं पानाहारादिभिर्धृतिम्।
अतर्कितोपनतया लसद्भावविलासया ॥३०६॥
सुदर्शनः स तस्याश्च निर्गमं प्रतिपालयन्।
बहिः स्थितः सतद्भूत्यैरुक्ते सत्तत्प्रेरितैस्ततः ॥३०७॥
मुक्त्वा गृहं गता सा ते निर्यान्ती न त्वयेक्षिता।
सत्त्वया किमिहाद्यापि क्रियते गम्यतामिति ॥३०८॥
सान्तःस्थिता न निर्याता न यास्यामीति स ब्रुवन्।
दत्त्वा पादप्रहारांस्तस्तद्भूत्यैर्निस्कास्यत ॥३०९॥
ततः सुदर्शनो गत्वा दुःखितः स व्यचिन्तयत्।
कथं मे वणिजा दारा मित्रेणाप्यमुना हृताः ॥३१०॥
इहैवोपनतं वा मे स्वपापफलमीदृशम्।
यन्मया कृतमन्यस्य तदन्येन कृतं मम ॥३११॥
कुप्यामि किं तदन्यस्मै कोपार्हं तत्स्वकर्म मे।
तच्छिन्दधि न येन स्यात्पुनर्मम पराभवः ॥३१२॥
इत्यालोच्य क्रोधं त्यक्त्वा गत्वा बदरिकाश्रमम्।
धूतशारस्तदा तत्र भवच्छेदि व्यतातपः ॥३१३॥
सा च रूपाधिकं प्राप्य प्रियं तं वणिजं पतिम्।
रमेऽनङ्गप्रभा मुग्धी पुण्यात्पुण्यमिवायता ॥३१४॥
क्रमेण तस्य साऽभूद्वणिजो विपुलश्रियः।
स्वामिनी सानुरागस्य प्राणेष्वपि धनेष्वपि ॥३१५॥
राजात्र वीरबाहुश्च तत्रस्थामेकसुन्दरीम्।
श्रुत्वापि धर्ममर्यादां रक्षन्नेव जहार ताम् ॥३१६॥

१ स्वस्थ इत्यर्थः।