कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 561, कुल 1079 में से
संदर्भ में पढ़ें५२ कथासरित्सागर
ततः पुरुषवेषं सा कृत्वाऽनङ्गप्रभा ययौ।
नाट्याचार्यगृहं च्छेदया सह सुस्निग्धयैकया ॥२७५॥
ततस्तदैव तेनोष्ट्रपृष्ठार्पितधनद्विना।
साकं सा तुरगारूढा प्रायान्नाट्योपदेशिना ॥२७६॥
साऽदौ विद्याधरीं लक्ष्मीं त्यक्त्वा राजश्रियं पुनः।
शिश्रिये चारणत्वं सा धिक् स्त्रीणां चपलं मनः ॥२७७॥
गत्वा च नाट्याचार्येण तेनानङ्गप्रभा सह।
दूरं सा नगरं प्राप वियोगपुरसञ्ज्ञकम् ॥२७८॥
तत्र तत्सहिता तस्थौ सुखं सा सोऽपि लब्धया।
तया मन्मथराश्या स्वां सत्यां मेने नटाग्रणीः ॥२७९॥
तावच्च तां गतां क्वाऽपि मुद्यमानङ्गप्रभां प्रियाम्।
राजा हरिवरः सोऽभूद्देहत्यागोन्मुखः शुचा ॥२८०॥
ततः सुमन्त्रो मन्त्री तमुवाचाश्वासयन् नृपम्।
देव किं यन्न वेत्सि त्वं पर्यालोचय तत्स्वयम् ॥२८१॥
सङ्गविद्याधरं त्यक्त्वा पतिं त्वां दृष्टमेव या।
उपाश्रिता कथं तस्याः स्थैर्यं स्यात् त्वय्यपि प्रभो ॥२८२॥
लघु कञ्चिद् गृहीत्वा सा गता सद्वस्तुनिःस्पृहा।
तूर्णरत्नशलाकेव तृणवृष्ट्यनुरागतः ॥२८३॥
नाट्याचार्येण सा नूनं नीता स हि न दृश्यते।
सङ्गीतगृहे प्रातस्तौ स्थिताविति च श्रुतम् ॥२८४॥
तदेवं वद कस्तस्यां जानतोऽपि वृथाग्रहः।
विलासिनी हि सर्वस्य सन्ध्येव क्षणरागिणी १ ॥२८५॥
इत्युक्तो मन्त्रिणा सोऽथ विचारपतितो नृपः।
अचिन्तयदहो सत्यमुक्तं मे सुधियामुना ॥२८६॥
पर्यन्तविरसा कष्टा प्रतिक्षणविवर्तिनी।
भवस्थितिरिवानित्यसम्बन्धा हि विलासिनी ॥२८७॥
१ यथा सन्ध्या किञ्चित् कालमेव रक्ता भवति पुनः कृष्णा। तथा
विलासिन्यपि किञ्चित् कालमेवानुरागवती भवतीति भावः।