सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 559, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 559

५१८ कथासरित्सागर

अष्टजन्मोपभोग्यं च पातकं तत्सदुद्वह।
इत्युक्त्वा धारणां दत्त्वा देवी तस्य तिरोदधे॥२६०॥
स मर्त्यदेहं पापं च दग्ध्वा धारणया तया।
जीवद्वसश्चिराच्छापमुक्तो जज्ञे गणोत्तमः॥२६१॥
देवानामध्येहो येन पापेन क्लेश ईदृशः।
परस्त्रीसङ्गमोत्थेन ह्यन्येषां तेन का गतिः॥२६२॥
सावञ्च तत्र सानङ्गप्रभा हरिवरे पुरे।
राज्ञो हरिवरस्यान्तः पुराणां प्राप मुख्यताम्॥२६३॥
स च राजा तदेकाग्रमनास्तस्थौ दिवानिशम्।
स्वमन्त्रिणि सुमन्त्राख्ये न्यस्तराज्यमहाभरः॥२६४॥
एकदा तस्य राज्ञश्च निकटं भव्यवंशजः।
आगाल्लभधरो नाम नाट्याचार्योऽत्र नूतनः॥२६५॥
स दृष्टकौशलस्तेन भूभृता वाद्यनाट्ययोः।
सम्भाव्यान्तःपुरस्त्रीणां नाट्याचार्यो व्यधीयत॥२६६॥
तेनानङ्गप्रभा नृत्ते प्रकर्षं प्रापिता तथा।
नृत्यन्त्यपि सपत्नीनां स्पृहणीयाऽभवद्यथा॥२६७॥
सहवासाच्च तस्याथ नृत्तशिक्षारसावपि।
नाट्याचार्यस्य सानङ्गप्रभाभूदनुरागिणी॥२६८॥
तस्याश्च रूपनृत्ताभ्यामाकृष्टः स शनैरहो।
नाट्याचार्योऽपि कामेन किमप्यन्यदनृत्यत्॥२६९॥
विजने चैकदामङ्गप्रभा सा नाट्यवेश्मनि।
प्रसाद्य नाट्याचार्यं समुपागाद्रतलालसा॥२७०॥
सुरतान्ते च सास्रमुत्सानुरागा जगाद तम्।
'त्वया विना कृता नाहं स्थातुं शक्ष्याम्यहं क्षणम्॥२७१॥
राजा हरिवरश्चैतद्बुद्ध्वा नैव क्षमिष्यते।
तदह्य यत्र गच्छावो यत्र राजा न बुध्यते॥२७२॥
अस्ति हेमहयोष्ट्रादि धनं च तव भूभृता।
नाट्यतुष्टेन यद्दत्तमस्ति चाभरणं मम॥२७३॥
तत्तत्र त्वरितं यामः स्थास्यामो यत्र निर्भयाः।
एतत् स तद्वशो हृष्टो नाट्याचार्योऽन्वमन्यत॥२७४॥