सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 555, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 555

५१४ कथासरित्सागर
सत्प्रभावेण जानामि भूतं भव्यं च भावि च।
सा चानङ्गप्रभा नीता राज्ञा हरिवरेण तु॥२३०॥
सुप्ते त्वयि विधियोगात् तन्मार्गगामिना तदा।
गीताकृष्टोपयातेन स्वनामपुरवासिना॥२३१॥
सा न शक्या न ते प्राप्तुं स हि राजा महाबलः।
सा पुनस्तमपि त्यक्त्वा कुलटान्‍यत्र यास्यति॥२३२॥
खड्गं च देवी प्रादात्ते सत्प्राप्त्यै तद्विधाय सः।
तस्यां हृतायां दिव्यत्वाद्भ्रष्टया एवान्तिकं गतः॥२३३॥
किं न वेत्स्येव तेऽनङ्गप्रभाशापोपवर्णने।
स्वप्ने भावि यदादिष्टं तत्कथं विस्मृतं तव॥२३४॥
तदेष भवितव्योऽयं व्यामोहोस्ते वृथैव कः।
पापानुबन्धं मुञ्चैनं भूयो भूयोऽतिदुःखदम्॥२३५॥
किं चाधुना तव तया पापयान्यानुरक्तया।
मानुषीभूतया ज्ञातस्वद्रोहाद्भ्रष्टविद्यया॥२३६॥
इत्युक्तः स तया साध्व्या त्यक्तानङ्गप्रभास्पृहः।
तज्जातखेदविरक्तात्मा जीवदत्तो जगाद ताम्॥२३७॥
शान्तस्त्वद्वचसा मोहः सत्येनाम्बामुना मम।
कामं न श्रेयसे कस्य सङ्गमः पुण्यकर्मभिः॥२३८॥
पूर्वपापवशादेतद् समापतितं मम।
तत्क्षालनाय यास्यामि तीर्थान्युज्झितमत्सरः॥२३९॥
को मेऽनङ्गप्रभाहर्तोर्वैरेणार्थः परे सह।
जितक्रोधेन सर्वं हि जगदेतद्विजीयते॥२४०॥
इति यावत् स वक्त्यत्र तावत्तस्याः पतिर्गृहे।
आययो प्रियदत्ताया धार्मिकोऽतिथिवात्सलः॥२४१॥
कृतातिथ्येन तेनाऽपि त्याजितो दुःखमत्र सः।
विश्रम्य तीर्थयात्राय प्रायादापृच्छय ताबुभौ॥२४२॥
ततः श्रमण सर्वाणि पृथ्व्यां तीर्थानि सोऽभ्रमत्।
विमोढानेककान्तारस्पृष्टो मूलफलाशनः॥२४३॥
भ्राम्यन्तीर्थेष्व तामेव स ययौ विन्ध्यवासिनीम्।
तत्र तप स्तपस्तीव्रं निराहारः कुशास्तरे॥२४४॥