सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 535, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 535

४१८ कथासरित्सागर
चतुर्थो ब्राह्मणो जीवदतोऽप्यभिगतो न मे।
स विरूपो विकर्मस्थः पतितो वेदवर्जितः ॥११३॥
स ते दण्डयितुं युक्तः किं नु तस्मै ददासि माम्।
वर्णाश्रमाणां धर्मस्य राजा त्वं ह्यत रक्षिता ॥११४॥
खड्गशूराच्च नृपतेर्धर्मशूरः प्रशस्यते।
खड्गशूरसहस्राणां धर्मशूरो भवेत् पतिः ॥११५॥
इत्याद्युक्तवतीमेतां सुतामन्तःपुरं निजम्।
विसृज्य च समुत्तस्थौ स्नानाद्यर्थं स भूपतिः ॥११६॥
द्वितीयेऽह्नि च ते वीरा गृहात् क्षत्तुर्विनिर्गताः।
बभ्रमुर्नगरे तत्र चत्वारोऽपि सकौतुकाः ॥११७॥
तावच्च पद्मकदलो नामात्र व्यालवारणः।
भग्नालानो जनं मथ्नन्काशाया निरगान्मदात् ॥११८॥
सोऽप्यधावच्च तान् दृष्ट्वा वीरान् हन्तुं महागजः।
ते चापि तस्याभिमुखं प्राधावन्नुद्यतायुधाः ॥११९॥
ततः खड्गधराख्यो यस्तन्मध्ये क्षत्रियः स तान्।
अन्यान्निवार्य मीनको गजमभ्यापपात तम् ॥१२०॥
लुलाव च करं तस्य गर्जतोऽग्रप्रसारितम्।
एकेनापि प्रहारेण विक्रत्सन् दावहस्तया ॥१२१॥
पादमध्ये च निर्गत्य दर्शयित्वा च लाघवम्।
प्रहारं प्रददौ पृष्ठे द्वितीयं तस्य दम्भिनः ॥१२२॥
तृतीयेन च विच्छेद तस्य पादावुभावपि।
ततो मुक्तारटिर्हस्ती पपात च ममार च ॥१२३॥
तं दृष्ट्वा विक्रमं तस्य जनः सर्वो विसिस्मये।
राजा महावराहस्तद्बुद्ध्वा चित्रीयते स्म च ॥१२४॥
अन्यद्युः स गजारूढो मृगयाय नृपो ययौ।
वीराः खड्गधराद्यास्ते चत्वारोऽपि समन्वयुः ॥१२५॥
तत्र व्याघ्रमृगक्रोडांन् ससैन्ये राज्ञि निघ्नति।
अधावन् कुपिताः सिंहाः श्रुतवारणबृंहिताः ॥१२६॥
१ चीत्कारं कुर्वन्नित्यर्थः।