कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 533, कुल 1079 में से
संदर्भ में पढ़ेंद्वाःस्थैरावेदितांस्तांश्च प्रविष्टान् पृच्छति स्म सः ।
महावराहो नृपतिरनङ्गरतिसन्निधौ ॥९७॥
नाम किं कस्य युष्माकं जातिर्विज्ञानमेव च ।
एतद्राजवचः श्रुत्वा तेष्वेकोऽस्तं व्यजिज्ञपत् ॥९८॥
पञ्चपट्टिकनामाहं शूद्रो विज्ञानमस्ति मे ।
वयामि प्रत्यहं पञ्च पट्टिकायुगलानि यत् ॥९९॥
तेभ्य एकं प्रयच्छामि ब्राह्मणाय ददामि च ।
द्वितीयं परमेशाय तृतीयं च वसे स्वयम् ॥१००॥
चतुर्थं मे भवेद् भार्या यदि तस्यै ददामि तत् ।
शरीरयात्रां विक्रीय पञ्चमेन करोम्यहम् ॥१०१॥
अथ द्वितीयोऽप्याचख्यावहं भाषाज्ञसंज्ञकः ।
वैश्यो रुतं विजानामि सर्वेषां मृगपक्षिणाम् ॥१०२॥
ततस्तृतीयोऽप्यवददहं खड्गधराभिधः ।
क्षत्रियः खड्गयुद्धेन जीये नान्येन केनचित् ॥१०३॥
चतुर्थश्चाब्रवीज्जीवदत्ताख्योऽहं द्विजोत्तमः ।
गौरीप्रसादविद्याभ्यां जीवयामि मृतां स्त्रियम् ॥१०४॥
एवमुक्तवतां तेषां शूद्रविट्क्षत्रियास्त्रयः ।
रूपं शौर्यं बलं चैव शशंसुः पृथगात्मनः ॥१०५॥
ब्राह्मणो रूपवर्जं तु बलशौर्यं शशंस सः ।
ततो महावराहः स्वं क्षत्तारमवदन्नृपः ॥१०६॥
नीत्वा विश्रामयैतांस्त्वं सम्प्रति स्वगृहेऽखिलान् ।
तच्छ्रुत्वा स तथेत्युक्त्वा क्षत्ता त्वानानयद्गृहम् ॥१०७॥
ततोऽब्रवीत् स राजा तामनङ्गरतिमात्मजाम् ।
एषां चतुर्णां वीराणां पुत्रि कोऽभिमतस्तव ॥१०८॥
शूद्रश्च वायकर्मकः क्रियते तस्य किं गुणैः ।
वैश्यो द्वितीयः पक्ष्यादिरुतिज्ञश्च तस्य किम् ॥१०९॥
श्रुत्वैतत्पितरं तं सा प्राहानङ्गरतिस्तथा ।
चतुर्णामपि तातैषां न कोऽप्यभिमतो मम ॥११०॥
ताभ्यां कथमहं दद्यामात्मानं क्षत्रिया सती ।
तृतीयस्तुल्यवर्णो मे भवति क्षत्रियो गुणी ॥१११॥
किं तु सेवोपजीवी स दरिद्रः प्राणविक्रयी ।
पृथ्वीपतिसुता भूत्वा कथं स्यां तस्य गेहिनी ॥११२॥