सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 531, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 531

४२४ कथासरित्सागर
यदैवाशोकमालायाः शापमोक्षो भविष्यति ।
तदैव जातिं स्मृत्वाय शापादस्माद् विमोक्ष्यते ॥८३॥
प्राप्य च स्वतनू शापं संस्मरन्निरहङ्कृतिः ।
अचिरात्त्वां विवाहोढः स्वयुक्तो भविता सुखी ॥८४॥
इत्युक्ता तेन सा साध्वी व्यजिह्ववृत्तिमाश्रये ।
तं च पानीस मां स्पूसमुञ्ज धापाविह च्युतम् ॥८५॥
दृष्ट मया चाहङ्कारदोषोऽवृष्टसमिद महत् ।
पुंसामदृष्टे दृष्टे वा श्रेयोऽहङ्कारिणां कुत ॥८६॥
क्षीणो मे स च शापोऽद्येत्युक्त्वा मुक्त्वा च तां तनुम् ।
हृत्पद्मं स सम्पेदे विद्याधरकुमारकः ॥८७॥
अशोकमालादेहं च नीत्वा विद्याप्रभावतः ।
अदृश्यमेव निक्षेप गङ्गायामानुषस्यतः ॥८८॥
विद्याप्रभापानीतैष्व तस्तोयैरभितः क्षणात् ।
अक्षाळयदरुङ्कारवतीवासगृहं स तत् ॥८९॥
नरवाहनदत्तं च नत्वा तं भाविनं प्रभुम् ।
स्वकार्यसिद्धये प्रायादुत्पत्य स नभस्तलम् ॥९०॥
विस्मितेष्वथ सर्वेषु प्रसङ्गात्तत्र गोमुखः ।
अनङ्गरतिसम्बद्धामिमामकथयत् कथाम् ॥९१॥
अनङ्गरतिकथा
अस्ति शूरपुरं नाम यथार्थं नगरं भुवि ।
महावराह इत्यासीद्राजा तत्रातिदुर्मदः ॥९२॥
गौर्याराधनतस्तस्य देव्याः पद्मरती सुता ।
जज्ञेऽनङ्गरतिर्नानि भूपस्यानन्दसन्ततेः ॥९३॥
कालेन यौवनारूढा सा च रूपाभिमानिनी ।
नेच्छति स्म पतिं कञ्चिद्याचमानेषु राजसु ॥९४॥
यः शूरो रूपवानेकं विज्ञानं वेत्ति शोभनम् ।
तस्मै मयात्मा दातव्य इत्युवाच तु निश्चयात् ॥९५॥
अथ तत्राययुर्वीराश्चत्वारो दक्षिणापथात् ।
तन्नृपेप्सव शूरोदन्तास्तवीप्सितगुणान्विताः ॥९६॥