कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 53, कुल 1079 में से
संदर्भ में पढ़ें३४ कथासरित्सागर
यद्यद्वस्तूपयुक्तं च तस्यास्तत्तदविलम्बयन् ।
व्योम्नैव प्रापयामास तत्र तेन गजेन स ॥६५॥
स्वयं तदनुरक्तश्च तत्रैवासीत्सदा निशि ।
आययौ राजकार्यार्थं रत्नकूटे दिवा पुनः ॥६६॥
एकदा स तया साकं प्रत्यूषे राजसत्तमः ।
राजा प्रतिघ्नन्सुस्वप्नं सिषेवे पानमङ्गलम् ॥६७॥
तेन मत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ ।
रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ॥६८॥
तत्र तस्थौ सशङ्कन कुर्वन्कार्याणि चेतसा ।
क्षीबा किमकरोन्मुक्ता सा मयेतीव त्रसता ॥६९॥
तावच्च राजवत्ता सा स्थाने तत्रातिदुर्गमे ।
महानसादिब्यप्रासु वासीष्वेकाकिनी स्थिता ॥७०॥
द्वारे निधिमिवान्यं तत्तद्रक्षाविजिगीषया ।
आगतं पुरुषं कञ्चिदृष्ट्वाश्चर्यदायकम् ॥७१॥
कस्त्वं कथमिदं स्थानमगम्यं चागतो भवान् ।
इति च भ्रान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ॥७२॥
ततः स दृष्टबहुलक्लेशस्तां पुंस्कोऽब्रवीत् ।
मुग्धे पवनसेनाख्यो वणिक्पुत्रोऽस्मि माथुरः ॥७३॥
हृतस्वो गोत्रजैः सोऽह्रमनाथः प्रमयात्पितुः ।
गत्वा विदेशे कृपणां परसेवामशिश्रियम् ॥७४॥
ततः कृच्छ्रेण सम्प्राप्य धनलेशं वणिग्मया ।
गच्छन्देशान्तरं मार्गे मुषितोऽस्म्येत्य तस्करैः ॥७५॥
ततो भिक्षां भ्रमंस्तुल्यैः सहायैर्गतवानहम् ।
रत्नानामाकरस्थानं कनकक्षेत्रसञ्ज्ञकम् ॥७६॥
तत्राङ्गीकृत्य भूपस्य भागं संवत्सरावधि ।
खातं ननक्षिति रत्नं नैकमप्यस्मि लब्धवान् ॥७७॥
मन्दत्सु लब्धरत्नेषु मन्विधेष््वपरेषु च ।
गत्वाम्भोतीरे दुःखात्तं काष्ठान्यहमुपाहरम् ॥७८॥
अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः ।
धीवदताभिधस्तावत्कोऽप्यत्र वणिगाययौ ॥७९॥