सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 529, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 529

४९२ कथासरित्सागर
स्थूलभुजविद्याधरस्य कथा
हिमाद्रावस्ति मदनपुर नामोत्तमं पुरम्।
प्रलम्बभुज इत्यस्ति तत्र विद्याधरेश्वरः ॥६९॥
तस्योदपद्यत स्थूलभुजाख्यस्तनयः प्रभो।
स च राजसुतो भव्यो यौवनस्थोऽभवत् क्रमात् ॥७०॥
ततः सुरभिदत्ताख्यो विद्याधरपतिः स्वयम्।
सकन्यो गृहमागत्य प्रलम्बभुजमाह तम् ॥७१॥
इयं सुरभिदत्ताख्या सुता त्वत्सूनवे मया।
दत्ता स्थूलभुजायाद्य गुणवान् स वहत्विमाम् ॥७२॥
तच्छ्रुत्वा प्रतिपद्यैव समाहूय स्वसूनवे।
स प्रलम्बभुजस्तस्मायेतमर्थं न्यवेदयत् ॥७३॥
ततः स तं स्थूलभुजो रूपदर्पात् सुतोऽब्रवीत्।
परिणेष्ये न चार्तेमां रूपेणैवा हि मध्यमा ॥७४॥
किं पुत्रात्यन्तरूपेण मान्या ह्येषा महान्वया।
पित्रा दत्ता मया चात्ता त्वत्कृते मान्त्रया कृथाः ॥७५॥
इत्युक्तश्च पुनस्तेन पित्रा स्थूलभुजः स तत्।
नाकरोद्यत्ततस्तं स शशाप कुपितः पिता ॥७६॥
रूपाहङ्कारदोषेण मानुष्येष्वधरामुना।
भविष्यसि च तत्र त्वं विकृतो विकटाननः ॥७७॥
भार्यामिष्टोक्तमालाख्यां प्राप्य शापच्युतो हठात्।
प्राप्तासि विरहक्लेशममिच्छन्त्या तयोज्झितः ॥७८॥
तस्याश्चान्यप्रसक्तायाः कृते दुःसङ्कधीकृतः।
करिष्यस्यग्निदाहादि पातकं रागमोहितः ॥७९॥
इत्युक्तशापं रुदती तं प्रलम्बभुजं तदा।
साध्वी सुरभिदत्ता सा पादलग्ना व्यजिज्ञपत् ॥८०॥
देहि शापं ममाप्येवं समास्तु गतिरावयोः।
मा भून्मे भर्तुरेकस्य क्लेशो मदपराधतः ॥८१॥
एवमुक्तवतीं तुष्टः साध्वीं तां परिसान्त्वयन्।
स प्रलम्बभुजः सूनोरेवं शापान्तमभ्यधात् ॥८२॥