कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 527, कुल 1079 में से
संदर्भ में पढ़ें४५० कथासरित्सागर
न चैषा मानुषी सत्यमेतदीय निशम्यताम्।
अस्त्यशोककरो नाम धीरो विद्याधरेश्वरः ॥५५॥
तस्यापुत्रस्य चैकैव देवाज्जज्ञे कन्यका।
अशोकमाला नाम्ना सावर्धंस्तस्य पितुर्गृहे ॥५६॥
यौवनस्था च सा तेन दीयमानान्वयार्थिना।
न कञ्चिदैच्छद् भर्तारमतिरूपाभिमानतः ॥५७॥
तेन शापमदात् सोऽस्यै निर्बन्धकुपितः पिता।
मानुष्यं व्रज नामाऽत्र भविता च स्वमेव ते ॥५८॥
परिणेष्यति चात्र त्वां विरूपो ब्राह्मणो हठात्।
तं त्यक्त्वा तद्भयाद् भर्तॄन् क्रमेण त्रीनुपैष्यसि ॥५९॥
ततोऽप्युपद्रुता तेन दासीत्वेनाभियेष्यसि।
राजपुत्रं बलीयांसं न चैव स निवत्स्यति ॥६०॥
दृष्ट्वा च धाविते तस्मिन् हन्तुकामे पलायिता।
प्रविष्टा राजभवनं शापात्तस्माद्विमोक्ष्यसे ॥६१॥
एव माशोकमाला सा पित्रा विद्याधरी पुरा।
क्षप्ता तेनैव नाम्नाऽथ सैषा जाताऽत्र मानुषी ॥६२॥
जातश्च सैष शापान्तोऽमुष्या गत्वाधुना पदम्।
वैद्याधरं स्वं तत्रस्था प्रवेक्ष्यति निजां तनुम् ॥६३॥
ततोऽभिरचिताख्येन विद्याधरमहीभुजा।
वृतेन भर्त्रा सहिता शापं संस्मृत्य रंस्यते ॥६४॥
इत्युक्त्वा विरतं वाचा दिव्यया सापि तत्क्षणम्।
अशोकमाला सहसा गतजीवापतद् भुवि ॥६५॥
दृष्ट्वा च तदलङ्कारवती बाष्पायितेक्षणा।
नरवाहनदत्तश्च सत्वास्त्वेस्तौ बभूवतुः ॥६६॥
स तु कुत्सितामर्षो रागाधो विस्रपन्नपि।
अकस्माद्दृढशर्माऽभूत्पर्योत्सुकमना द्विजः ॥६७॥
किमेतदिति पृष्टश्च सर्वैर्विप्रो जगाद सः।
मया जन्म स्मृतं पूर्वं तच्च वच्मि निशम्यताम् ॥६८॥