सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 523, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 523

४८६ कथासरित्सागर
तत्र वासवदत्ताया वत्सराजस्य चाग्रतः।
अलङ्कारवतीमाह माता सा काञ्चनप्रभा ॥२६॥
युक्तं स्थाप्यस्त्वया भर्त्ता नेष्यन्कोपेन जातुचित्।
तत्पापजो हि विरहः पुत्रि गाढानुतापकृत् ॥२७॥
ईर्ष्यावत्या मया पूर्वं युक्तं यत्स्थापितः पतिः ।
ततोऽद्य पश्चात्तापेन दग्धे तस्मिन् गते वनम् ॥२८॥
इत्युक्त्वा तां समाश्लिष्य बाष्परुद्धनेत्रया ।
काञ्चनप्रभया जग्मे समुत्पत्य निजं पुरम् ॥२९॥
ततस्तस्मिन् दिने याते प्रातः कृत्वोचिताः क्रियाः ।
नरवाहनदत्तोऽत्र स्थिते स्वसचिवान्विते ॥३०॥
अलङ्कारवतीपार्श्वं प्रविश्यैव विलासिनी ।
एकाब्रवीद् भीतभीता देवि स्त्रीं रक्ष रक्ष माम् ॥३१॥
अशोकमालाया कथा
एष हि ब्राह्मणो हन्तुमागतो मां बहिःस्थितः ।
एतद्भयात् प्रविष्टाहं पलाय्य शरणैषिणी ॥३२॥
मा भैषीब्रूहि वृत्तान्तं कोऽस्य किं त्वां विधांसति ।
इति पृष्ट्वा च सा वक्तुं भूय एव प्रचक्रमे ॥३३॥
अशोकमाला नामाहमस्यामेव पुरि प्रभो ।
बलसेनाभिधानस्य क्षत्रियस्यात्मसम्भवा ॥३४॥
साहं कन्या सती पूर्वं स्पटकुम्भेन याचिता ।
हठधर्माभिधानेन विप्रेणार्थवता पितुः ॥३५॥
नाहं दुराकृतिं घोरमुत्समिच्छाम्यमुं पतिम् ।
दत्ता मासे गृहेऽस्येति पितरं नाहमब्रुवम् ॥३६॥
तच्छ्रुत्वाप्यकरोत्तावद्धठधर्मा गृहे पितुः ।
प्रायं यावदहं दत्ता तेनास्मै धमभीरुणा ॥३७॥
ततो विवाहानिच्छन्तीमप्यनीषीत् स मां द्विजः ।
अहं गता च तं त्यक्त्वाऽन्यं क्षत्रियपुत्रकम् ॥३८॥
सार्थमभूतोऽधर्मसन्दधौवसेनेन हठशर्मणा ।
तद्द्वितीयो मया सत्रकुमारो धनवाञ्छितः ॥३९॥