सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 519, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 519

४८२ कथासरित्सागरे
स च नरवाहनदत्तः सद्वृत्तमनोरमामुदारगुणाम्।
प्राप्यालङ्कारवतीं वाणीमिव सुकविरास्त तद्रसिकः ॥२२७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
अलंकारवती लम्बके प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः
नरवाहनदत्तस्यालङ्कारवतीगृहे गमनम्
ततोऽलङ्कारवत्या स युक्तो वत्सेश्वरात्मजः।
नरवाहनदत्तोऽत्र नववध्वा पितुर्गृहे ॥१॥
तच्चेटिकानां दिव्येन नृत्यगीतेन रञ्जितः।
आपानं सेवमानश्च सचिवैः सह तस्थिवान् ॥२॥
एकदा च तमागत्य सा श्वश्रूः काञ्चनप्रभा।
[L13: ] अलंकारवतीमाता विहितातिथ्यमब्रवीत् ॥३॥
आगच्छास्मद्गृहं पश्य तत्सुन्दरपुरं पुरम्।
रमस्व तत्रोपवनेष्वलङ्कारवतीयुतः ॥४॥
एतच्छ्रुत्वा ससंरयुक्त्या पितुरावन्द्य तद्गिरा।
वसन्तकं सहायाय वध्वा सह समन्वितः ॥५॥
श्वश्र्वा विद्याप्रभावेण तयैव स विनिर्मितम्।
विमानवरमारुह्य प्रतस्थे व्योमवर्त्मना ॥६॥
विमानस्थश्च गमनात् सोऽधस्तात् प्रविलोकयन्।
स्थलीपरिमितों पृथ्वीं समुद्रान् परिखासमान् ॥७॥
॥८॥१
श्वश्रूभार्यादिभिः साकं क्रमात् प्राप हिमाचलम्।
नादितं किन्नरीगीतैः स्वर्गभूसादृशसुन्दरम् ॥९॥
तत्राश्चर्याणि सुबहून्येव पदमवाप्तवान्।
नरवाहनदत्तोऽथ तत्सुन्दरपुरे युवा ॥१०॥
१ मूलपुस्तके श्लोकोऽयं त्रुटितः।