सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 513, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 513

४७६ - कथासरित्सागर
तत पुरे स्थितस्तस्मिन्पृथ्वीरूपनृपोऽथ सः।
तद्दीपोचितमाहारं भेजे पानं च सानुगः ॥१८४॥
नृत्तगीतादिविधिभिर्गते दिने नक्तं विवेश च।
शूल्को रूपलतावासभवनं सोऽवनीपतिः ॥१८५॥
आस्तीर्णरत्नपर्यङ्कं रत्नकुट्टिमशोभितम्।
रत्नस्तम्भोम्भिताबोगं रत्नदीपैः प्रकाशितम् ॥१८६॥
तत्र भेजे तया सार्कं स रूपलतया युवा।
धिरसङ्कल्पगुणितं यथेच्छं सुरतोत्सवम् ॥१८७॥
सुरतश्रमसुप्तश्च पठद्भिर्वन्दिमागधैः।
बोधितः प्रातरुत्थाय तस्थाविन्द्रो यथा दिवि ॥१८८॥
एवं दश दिनान्यत्र पृथ्वीरूपनृपो वसन्।
द्वीपे नवनवैर्भोगैर्विलसन् श्वशुराहृतैः ॥१८९॥
एकादशे दिने युक्तः स रूपलतया ततः।
गणकानुगतो राजा प्रतस्थे कृतमङ्गलः ॥१९०॥
कृतानुयामः श्वशुरेणासमुद्रतटं च सः।
वध्वा सह प्रवहणान्यारुरोहानुगायितः ॥१९१॥
दिनाष्टकेन तीर्त्वाब्धिं तीरस्थे मिलिते बले।
उदारचरिते चाप्तप्राप्ते पत्रपुरं ययौ ॥१९२॥
तत्रोपचरितस्तेन राज्ञा विश्रम्य कानिचित्।
दिनानि स ततः प्रायात् पृथ्वीरूपो नरेश्वरः ॥१९३॥
प्रियां रूपलतां हस्तिन्यारोप्य जयमङ्गले।
रूक्ष्यांगगिरिनामानमात्मनारुह्य च द्विपम् ॥१९४॥
गच्छन् क्रमादविरतैः सोऽथ राजा प्रयाणकैः।
उत्पलाकम्वजं प्राप प्रतिष्ठानं निजं पुरम् ॥१९५॥
तत्र रूपलतां दृष्ट्वा रूपदर्पं पुराङ्गनाः।
जहुस्तत्कालमाश्चर्येनिर्निमेषविलोचनाः ॥१९६॥
राजधानीं प्रविश्याथ पृथ्वीरूपः कृतोत्सवः।
ददौ चित्रकृते तस्मै ग्रामाम् राजा धनं च सः ॥१९७॥
श्रमणों पूजयित्वा च वसुभिस्तो यथोचितम्।
सामन्तान् सचिबान् राजपुत्रांश्च सममानयत् ॥१९८॥