कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 507, कुल 1079 में से
संदर्भ में पढ़ें४७० कथासरित्सागर
तुल्यरूपा यदा तेन न प्राप्ता राजकन्यका।
तदा नवेऽपि तारुण्ये स तिष्ठत्यपरिग्रहः ॥१३९॥
मया च देव दृष्ट्वैव स राजा लोचनप्रियः।
अभिलिख्य पटे सम्यग्गृहीतो रूपकौतुकात् ॥१४०॥
सच्छ्रुत्वा किं पटः सोऽस्तीत्युक्तस्तेन स भूभृता।
अस्तीत्युक्त्वा च तं चित्रकरः पटमदर्शयत् ॥१४१॥
तत्र दृष्ट्वा स तद्रूपं पृथ्वीरूपस्य भूपतेः।
राजा रूपधरो दध्रे विस्मयाघूर्णितं शिरः ॥१४२॥
जगाद च वयं धन्या यैरत्र लिखितोऽप्ययम्।
दृष्टो राजा नमस्तेभ्यः साक्षात्पश्यन्ति ये त्वमुम् ॥१४३॥
एतत्पितृवचः श्रुत्वा दृष्ट्वा चित्रे च तं नृपम्।
सोत्का स्मरलता भाम्यञ्चुक्षोभ न ददर्श च ॥१४४॥
तां मारमोहितां दृष्ट्वा सुतां स नृपतिस्तदा।
कुमारदत्तं तं चित्रकरं रूपधरोऽभ्यधात् ॥१४५॥
नास्त्यालेख्यविसंवादस्तव तद्दुहितुर्मम।
एतस्याः प्रतिरूपः स पृथ्वीरूपनृपः पतिः ॥१४६॥
तदेतं मत्सुताचित्रपटं नीत्वाद्य सत्वरम्।
पृथ्वीरूपनृपायेतां मत्सुतां गच्छ दर्शय ॥१४७॥
आख्याय च यथावृत्तं सतस्मै यदि रोचते।
यदिह द्रुतमायातु परिणेतुं मदात्मजाम् ॥१४८॥
इत्युक्त्वा पूजयित्वार्थैः स सहस्थितभिक्षुकम्।
राजा चित्रकरं तं च स्वदूतं च विसृष्टवान् ॥१४९॥
ते गत्वाम्बुधिमुत्तीर्य चित्रकृद्दूतभिक्षुकाः।
सर्वे प्रापुः प्रतिष्ठानं पृथ्वीरूपनृपान्तिकम् ॥१५०॥
तत्र प्राभृतकं दत्त्वा कार्यं शंसे यथाकृतम्।
स रूपधरसंदेशं राज्ञे तस्मै न्यवेदयत् ॥१५१॥
स च चित्रकृदेतस्मै भूभृते तामदर्शयत्।
कुमारदत्तश्चित्रस्थां प्रियां दम्पततां गतः ॥१५२॥
राज्ञस्तस्य वपुष्यस्या लावण्यसरसीकृतः।
मग्ना दृष्टिस्तथा नैतामुद्धर्तुमशकत्तथा ॥१५३॥