कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 503, कुल 1079 में से
संदर्भ में पढ़ें४६६ कथासरित्सागर
ततः सवाष्पो रामस्त मवमानाय्य तावुभौ ।
कण्ठे जग्राह सैषोऽहं पापो राम इति ब्रुवन् ॥११०॥
अथ सीतां प्रशंसत्सु वीरो पश्यत्सु तौ शिशू ।
पौरेषु मिलितञ्चक्र स तौ रामोऽग्रहीत्सुतौ ॥१११॥
आनाम्य सीतादेवीं च वाल्मीकेराश्रमात्ततः ।
तया सह सुखं तस्थौ पुत्रन्यस्तभरोऽथ सः ॥११२॥
एवं सहन्ते विरहं धीराश्चिरमपीदृशम् ।
न सहषे मुग्धां पुत्रीं कथमेकामपि क्षपाम् ॥११३॥
इत्यात्मजामलङ्कारवतीं परिणयोत्सुकाम् ।
नरवाहनदत्तं च तमुक्त्वा काञ्चनप्रभा ॥११४॥
नभसा प्रातरागन्तुमगादादाय तां सुताम् ।
नरवाहनदत्तोऽपि कौशाम्बीं विमना ययौ ॥११५॥
तत्रानिद्रं निशि स्माह गोमुखस्तं विनोदयन ।
पृथ्वीरूपकथां देव शृण्विमां कथयामि ते ॥११६॥
पृथ्वीरूपवरनृपतेः रूपलतायाश्च कथा
अस्ति नाम्ना प्रतिष्ठानं नगरं दक्षिणापथे ।
पृथ्वीरूपाभिधानोऽभूद्राजा तत्रातिरूपवान् ॥११७॥
तं परिक्षितिनौ जातु श्रमणौ द्वावुपेयतुः ।
विलोक्याद्भुतरूपं च तावेव नृपमूचतुः ॥११८॥
द्वावावां पृथिवीं भ्रान्तौ न च रूपेण ते समम् ।
अन्यं पुमांस नारीं वा दृष्टवन्तौ क्वचित्प्रभो ॥११९॥
किं तु मुक्तिपुरद्वीपे राज्ञो रूपधरस्य या ।
अस्ति हेमप्रभादभ्यां जाता रूपलता सुता ॥१२ ०॥
सैका ते सदृशी कन्या तस्याश्चैको भवानपि ।
युवयोर्यदि संयोगो भवेत्स्यात्सुकृतं ततः ॥१२१॥
इति श्रमणवाक्येन समं मदनसायकाः ।
प्रविश्य श्रुतिमार्गेण रागस्तस्यांससञ्ज हृदि ॥१२२॥
ततः समुत्सुको राजा निजं चित्रकरोत्तमम् ।
कुमारदत्तनामानं पृथ्वीरूपः समादिशत् ॥१२३॥