कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 501, कुल 1079 में से
संदर्भ में पढ़ें२६४ कुशाचरितसार
एकदा आश्रममृगं हत्वा तन्मांसमादतुः ।
अर्धास्थिभिश्च वाल्मीकेरचक्रतुः क्रीडनीयकम् ॥९५॥
तत क्षिप्तो मुनिः सोऽथ सीतादेव्यानुनाधितः ।
प्रायश्चित्तं तयोरेवमादिक्षेत् कुमारयोः ॥९६॥
गत्वा कुबेरसरसः स्वर्णपद्मान्यथ लवः ।
तदुद्यानाच्च मन्दारपुष्प्याण्यानयतु द्रुतम् ॥९७॥
तैरेतौ भ्रातरावत्संल्लिङ्गमर्चयतामुभौ ।
तेनैतयोरिदं पापमुपशान्तिं गमिष्यति ॥९८॥
एतच्छ्रुत्वैव कैलासं स बालोऽपि लवो ययौ ।
आधस्कन्द कुबेरस्य सरस्तच्चोपवनं च तत् ॥९९॥
निहत्य यक्षानादाय पद्मानि कुसुमानि च ।
आगच्छन्नपि स श्रान्तो विशश्राम तरोस्तले ॥१००॥
अत्रान्तरं च रामस्य हयमेधे सुलक्षणम् ।
चिन्वन्मुख्यमागच्छत्तेन मार्गेण लक्ष्मणः ॥१०१॥
स लवं समराहूतं मोहनास्त्रेण मोहितम् ।
क्षत्रधर्मेण बद्ध्वा तमयोध्यामनयत्पुरीम् ॥१०२॥
तावच्च सीतामाश्वास्य लवागमनदुःखिताम् ।
वाल्मीकिः स्वाश्रमे तत्र ज्ञानी कुशमभाषत ॥१०३॥
भीतोऽयोध्यांमवष्टभ्य लक्ष्मणेन सुतो लवः ।
गच्छ मोधय तं तस्मादभिरस्त्रैर्विनिर्जितात् ॥१०४॥
इत्युक्त्वा दत्तदिव्यास्त्रस्तेन गत्वा कुशस्ततः ।
रोध्यमानामयोध्यायां यज्ञभूमिं सरोष सः ॥१०५॥
जिगाय लक्ष्मणं चात्र तन्निमित्तं प्रभाषितम् ।
युद्धे दिव्यैर्महास्त्रैस्तैस्ततो रामस्तमभ्यगात् ॥१०६॥
सोऽपि प्रभावाद्वाल्मीकेर्जेतुं नास्त्रं क्षमाक तम् ।
कुशं यत्नेन पप्रच्छ कोऽर्षस्ते को भवानिति ॥१०७॥
कुशस्ततोऽब्रवीद् बद्ध्वा लक्ष्मणेनाग्रजो मम ।
आनीतः इह तस्याहं मोचनार्थमिहागतः ॥१०८॥
आवां लवकुशौ रामतनयाविति जानकी ।
माता नौ वक्ति चेत्युक्त्वा तद्वृत्तान्तं शशंस सः ॥१०९॥