कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 499, कुल 1079 में से
संदर्भ में पढ़ें४६२
कथासरित्सागर
तत्रैषा राघववधूः परिशुद्धिं करोतु नः ।
इत्युक्तवद्भिस्तैः साकं जानकी तत्सरो ययौ ॥८०॥
यद्यार्यपुत्रादन्यत्र न स्वप्नेऽपि मनो मम।
तदुत्तरेयं सरसः पारमम्ब वसुन्धरे ॥८१॥
इत्युक्त्वैव प्रविष्टा च तस्मिन्सरसि सा सती।
नीता च पारमुत्सङ्गं कृत्वाविर्भूतया भुवा ॥८२॥
ततस्तां ते महासाध्वीं प्रणेमुर्मुनयोऽखिलाः।
राघवं शप्तुमैच्छंश्च तत्परित्यागमन्युना ॥८३॥
युष्माभिरार्यपुत्रस्य न ध्यातव्यममङ्गलम्।
शप्तुमर्हथ मामेव पापामभ्यञ्जलिरेष वः ॥८४॥
इति यद्वारयामास सीता तान्सा पतिव्रता।
तेन ते मुनयस्तुष्टास्तस्याः पुत्राशिषं ददुः ॥८५॥
ततः सा तत्र तिष्ठन्ती समये सुषुवे सुतम्।
तं च नाम्ना लवं चक्रे स वाल्मीकिमुनिः धियुम् ॥८६॥
बालमादाय तं तस्यां गतायां स्नातुमेकदा।
तेन शून्यं तदुटजं दृष्ट्वा सोऽचिन्तयन्मुनिः ॥८७॥
स्थापयित्वार्भकं याति स्नातुं सा तत् क्व सोऽर्भकः ।
नीतः स श्वापदेनेह नूनमन्यं सृजामि तत् ॥८८॥
स्नात्वागतान्यथा सीता न प्राणान्धारयेदिह।
इति ध्यात्वा कुशैः कृत्वा पवित्रं निर्ममेऽर्भकम् ॥८९॥
लवस्य सदृशं स च स तमास्थापयन्मुनिः।
आगता तं च सा दृष्ट्वा मुनिं सीता व्यजिज्ञपत् ॥९०॥
स्वकोऽयं मे स्थितो बालस्तदेषोऽन्यः कुतो मुने।
तच्छ्रुत्वा स यथावृत्तमुक्त्वा मुनिरुवाच ताम् ॥९१॥
भवितव्यं गृहाण त्वं द्वितीयमममे सुतम्।
कुशसंज्ञं मयायं यत्स्वप्रभावात्कुशैः कृतः ॥९२॥
इत्युक्ता तन मुनिना सीता सबबुचो सुतौ।
तेनैव कृतसंस्कारौ वर्धयामास तत्र तौ ॥९३॥
बालावेव च तौ दिव्यमस्त्रग्राममवापतुः।
विद्याश्च सर्वाः वाल्मीकिमुनेः क्षत्रकुमारकौ ॥९४॥