कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 497, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर
अथावृत्तस्य वनात् शासतो भरतार्पितम् ।
तस्य राज्यमयोध्यायां सीता गर्भमधत्त सा ॥६५॥
तावच्चात्र प्रजाचेष्टां ज्ञातुमल्पपरिच्छदः ।
स्वैरं परिभ्रमन्नेकं सोऽपश्यत्पुरुषं प्रभुः ॥६६॥
हस्ते गृहीत्वा गृहिणीं निरस्यन्तं निशासु गृहात् ।
परस्येयं गृहमगादिति दोषानुकीर्तनात् ॥६७॥
रक्षोगृहोषिता सीता राघवेन नोज्झिता ।
अयमभ्यधिको भो मामुज्झति ज्ञातिवेश्मगाम् ॥६८॥
इति तद् गृहिणीं तां च ब्रुवतीं स्वं निज पतिम्।
रामो राजा स शुश्राव क्षिप्रञ्चाभ्यन्तरं ययौ ॥६९॥
लोकापवादभीतश्च सीतां तत्याज तां वने।
सहते विरहक्लेशं यशस्वी नायशः पुनः ॥७०॥
सा च गर्भालसा दैवाद्वाल्मीकेः प्रापदाश्रमम् ।
तेनर्षिणा समाश्वास्य तत्रैव ग्राहिता स्थितिम् ॥७१॥
नूनं सीता सदोषाऽयं त्यक्ता भर्त्राऽन्यथा कथम् ।
तदेतद्दर्शनाश्रित्य पापं संक्रामतीह नः ॥७२॥
वाल्मीकिः कृपया चैनां निर्वासयति नाश्रमात् ।
एतद्दर्शनजं पापं तपसा च व्यपोहति ॥७३॥
तदेत यावद् गच्छामो द्वितीयं कञ्चिदाश्रमम् ।
इति सम्मन्त्रयामासुस्तमभ्येत्य मुनयस्तदा ॥७४॥
तद् बुद्ध्वा तान्स वाल्मीकिरब्रवीत्तान् सदयः ।
शुद्धा प्रणिधानेन मया दृष्टा द्विजा इति ॥७५॥
तथाप्यप्रत्ययस्तेषां यदा सीता तदाभ्यधात् ।
भगवन्तो यथा विद्म तथा घोषयतेह माम् ॥७६॥
अशुद्धायाः शिरश्छेदनिग्रहः क्रियतां मम।
तच्छ्रुत्वा जातकरुणा जगदुर्मुनयोऽथ ते ॥७७॥
अस्त्यत्र टीटिभरावा नाम तीर्थं महत्नु ।
टीटिभी हि पुरा कापि भर्तृत्यागद्रुतद्रुता ॥७८॥
मिथ्यैव दूषिता साध्वी चतन्दारणा भुषम् ।