कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 493, कुल 1079 में से
संदर्भ में पढ़ेंयदि यूनोऽपि ते पुत्र वैराग्यमिदमीदृशम् ।
नास्ति वृद्धस्य मे सक्तिर्महमप्याश्रये वनम् ॥३७॥
इत्युक्त्वा मर्त्यलोकं च गत्वा भारायुतं ददौ ।
ब्राह्मणेभ्यो दरिद्रेभ्यो रत्नानां काञ्चनस्य च ॥३८॥
एत्य च स्वपुरं भार्यामुवाचैतत्काञ्चनप्रभाम् ।
त्वया मदाज्ञयैहैव स्थातव्यं नगरे निजे ॥३९॥
रक्षालङ्कारवत्येषा कन्या पूर्णे च वत्सरे ।
अस्ति यैवाह्नोऽस्यास्तिष्याख्यतने शुभे ॥४०॥
नरवाहनदत्ताय दास्याम्येतामहं तदा ।
स चक्रवर्ती जामाता पास्यतीदं पुरं च नः ॥४१॥
इत्युक्त्वा दत्तशपथां भार्यां राजा निवर्त्य सः ।
ससुतां विलपन्तीं तां सपुत्रः शिश्रिये वनम् ॥४२॥
सा तु स्वपुरमभ्यास्त तत्र भार्या काञ्चनप्रभा ।
दुहित्रा सह साध्वी स्त्री भर्त्राज्ञां का हि लङ्घयेत् ॥४३॥
सस्नुता च तया मात्रा सह स्नेहानुयातया ।
अलङ्कारवती भ्रान्ता बहून्यायतनानि च ॥४४॥
एकदा तां च वक्ति स्म विद्या प्रज्ञप्तिसंज्ञिका ।
कश्मीरेषु स्वयम्भूणि गत्वा क्षेत्राणि पूजय ॥४५॥
नरवाहनदत्तं हि निर्विघ्नं त्वं पतिं ततः ।
सर्वविद्याधरेन्द्रैकचक्रवर्तिनमाप्स्यसि ॥४६॥
इत्युक्ता विद्यया गत्वा काश्मीरात्सा समातृका ।
अलङ्कारवती शम्भुं पुण्यक्षेत्रेष्वपूजयत् ॥४७॥
नन्दिक्षेत्रे महादेवगिरावमरपर्वते ।
सुरेश्वर्याद्रिषु तथा विजये कपटेश्वरे ॥४८॥
एवमादिषु सम्पूज्य क्षेत्रेषु गिरिजापतिम् ।
विद्याधरेन्द्रकन्या सा तन्माता चागते गुहाम् ॥४९॥
तामेतां विद्ध्यलङ्कारवतीं सुभग कन्यकाम् ।
तां च मातरमप्येतस्या विद्धि मां काञ्चनप्रभाम् ॥५०॥
अद्य चैषा ममानुक्त्वेवागतेमं शिवालयम् ।
तत प्रज्ञप्तिविद्यातो विज्ञाय्याहमिहागता ॥५१॥