सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 491, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 491

४५४ कथासरित्सागर

ततोऽत्र तेनालङ्कारवतीति कृतनामिका।
पित्रा क्रमणावर्धिष्ट भासा शशिकलेव सा॥२२॥
कालेन यौवनस्था च प्राप्तविद्या निजात्पितुः।
तत्तदायतनं शम्भोर्भक्त्या भ्रमितुमुद्यता॥२३॥
तावच्च धर्मशीलोऽस्य भ्राता शान्तो युवापि सन्।
रहोऽलङ्कारशीलं तं पितरं स्वं व्यजिज्ञपत्॥२४॥
न मां भोगा इमे तात प्रीणन्ति क्षणभङ्गुराः।
किं तदस्ति हि संसारे पर्यन्तविरसं न यत्॥२५॥
तथा चैतत्त्वया किं न श्रुतं व्यासमुनेर्वचः।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः॥२६॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्।
तदेषु का रतिस्तात नश्वरेषु मनस्विनाम्॥२७॥
परत्र न सहायान्ति न भोगा मार्त्ससञ्चयाः।
एकस्तु बान्धवो धर्मो न जहाति पदात्पदम्॥२८॥
तस्माद्वनं गत्वाहं साधयाम्युत्तमं तपः।
आसादयेयं तद्येन शाश्वतं परमं पदम्॥२९॥
इत्युक्तवन्तं तं पुत्रं धर्मशीलं सगाकुलम्।
राजाऽलङ्कारशीलोऽथ वक्ति स्मोदश्रुलोचनः॥३०॥
[L19: बालस्येव तवाकाण्डे कोऽयं पुत्र मतिभ्रमः।
उपयुक्ते हि तारुण्ये प्रशमः सद्भिरिष्यते॥३१॥
कृतदारस्य धर्मेण राज्यं पालयतस्तव।
भोगा भोक्तुमयं कालो न वैराग्यस्य साम्प्रतम्॥३२॥
एतत्पितुर्वचः श्रुत्वा धर्मशीलोऽभ्यधात्पुनः।
न शमाश्रमयोरेष नियमोऽस्ति वयःकृतः॥३३॥
ईश्वरानुगृहीतो हि कश्चिद्बालोऽपि शाम्यति।
वृद्धोऽपि न शमं याति कश्चित्कापुरुषः पुनः॥३४॥
न च राज्ये रतिर्मेऽस्ति न वा दारपरिग्रहे।
ममेतज्जीवितफलं यच्छिवारधनं तपः॥३५॥
इति ब्रुवाणं यत्नाप्यनिवार्यमवेक्ष्य तम्।
पिताऽलङ्कारशीलोऽसौ विमुख्याप्यूच्यभाषत॥३६॥