कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 489, कुल 1079 में से
संदर्भ में पढ़ें४५२ कथासरित्सागर
सापि तं सरसस्निग्धमुग्धेनालोक्य चक्षुषा।
तदेकगतचित्ताभूद्विस्मृतस्वरधारणा ॥८॥
नरवाहनदत्तस्य चित्तज्ञो गोमुखस्ततः।
केयं कस्य सुता चेति यावत्पृच्छति तत्सखी ॥९॥
तावच्च संमुखी तस्याः पूर्वं हेमारुणप्रभा।
पश्चादवततारैका प्रौढा विद्याधरी दिवः ॥१०॥
सा चावतीर्य कन्यायास्तस्या पार्श्वे उपाविशत्।
कन्याप्युत्थाय सा तस्याः पादयोरपतत्तदा ॥११॥
सर्वविद्याधराधीशं निर्विघ्नं पतिमाप्नुहि।
इति प्रौढापि सा तस्यै कन्याया आशिषं ददौ ॥१२॥
नरवाहनदत्तोऽथ तामुपेत्य प्रणम्य च।
दत्ताशिषं पर्यपृच्छत्सोम्यां विद्याधरीं शनैः ॥१३॥
केयं कन्या भवत्यम्ब त्वं का कथ्यतामिति।
ततो विद्याधरी सा तमुवाच शृणु वच्म्यहम् ॥१४॥
अलङ्कारवती कथा
अस्ति गौरीगुरोः शैले श्रीसुन्दरपुरं पुरम्।
आस्तेऽलङ्कारशीलाख्यस्तत्र विद्याधरेश्वरः ॥१५॥
तस्योदारगुणन्यास्ति महिषी काञ्चनप्रभा।
तस्यां तस्य च कालेन राज्ञः सूनुरजायत ॥१६॥
एष धर्मपरो भावीत्यादिष्टमुमया यया।
स्वप्ने तदा धर्मशीलं नाम्ना तमकरोत्पिता ॥१७॥
क्रमेण यौवनप्राप्तं धर्मशीलं स तं सुतम्।
राजा संयोज्य विद्याभिर्यौवराज्येऽभिषिक्तवान् ॥१८॥
ततः स यौवराज्यस्थो धर्मैकपरमो वशी।
अरञ्जयद्धर्मशीलः पितुरप्यधिकं प्रजाः ॥१९॥
ततोऽलङ्कारशीलस्य राज्ञः सा काञ्चनप्रभा।
अन्तर्वत्नी सती राज्ञी तस्य सूते स्म कन्यकाम् ॥२०॥
नरवाहनदत्तस्य भार्यैषा चक्रवर्तिनः।
कन्या भवित्रीति तदा दिव्या वागुदचोचयत् ॥२१॥