कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 473, कुल 1079 में से
संदर्भ में पढ़ें४३६ कथासरित्सागर
हिरण्याक्षादिभिर्मर्त्यैर्हेतुराज्याय कृत स यैः ।
ते गता ध्रुव एवाद्य व्यच्छस्तत्का विरोधिता ॥११४॥
निर्भरंसुखितास्तस्माद्वर्तध्वमितरेतरम् ।
अस्माकं येन सन्तोषः शिवं च जगतां भवेत् ॥११५॥
इति सिद्धिमताच्छ्रुत्वा भगवत्या दनोर्वचः ।
शक्रेण वीक्षितमुखो वृहस्पतिरुवाच ताम् ॥११६॥
नानुबन्धोऽस्ति देवानामसुरान्प्रति कश्चन ।
विकुर्वते न यद्येते मिथ्या देवानिमान्प्रति ॥११७॥
इत्युक्ते देवगुरुणा दानवेन्द्रो मयोऽब्रवीत् ।
स्याद्विकारोऽसुराणां चेत्सह्यास्तन्मुवि कथम् ॥११८॥
उच्चैःश्रवसमन्द्राय मृतसञ्जीवनं हयम् ।
प्रबलोऽथ शरीरं स्वं सुरेभ्यः कथमर्पयेत् ॥११९॥
त्रैलोक्यं हरये दत्त्वा विशेत्कारां कथं बलिः ।
अयोदेहः कथं देहं दद्याद्वा विश्वकर्मणे ॥१२०॥
अधिकं वा कियदुष्पि नित्यसम्भाविनोऽसुराः ।
छद्मना श्वेश बाध्यन्ते तदेषां नास्ति विक्रिया ॥१२१॥
एव मयासुरेणोक्ते सिद्धयात्रोचि तथा यथा ।
प्रीतिर्देवासुरादक्षत्रुमिय कण्ठग्रहोत्तरम् ॥१२२॥
तावद् भवान्या प्रहिता प्रतीहारी जयाभिधा ।
अत्रायात्पूजिता सर्वैः सुमेरुमवदच्च सा ॥१२३॥
देव्याहं प्रेषिता त्वां प्रत्यादिष्टं च तया तव ।
अस्ति ते कन्यका नाम्ना कामचूडामणिः सुता ॥१२४॥
सूर्यप्रभाय तां देहि शीघ्रं भक्ता हि सा मम ।
इत्युक्तो जयया प्रह्वः सुमेरुः प्रत्युवाच ताम् ॥१२५॥
यदादिशति देवी मां परमोऽनुग्रहो ह्ययम् ।
देवेनाप्ययमेवार्थः प्रागादिष्टो ममाभवत् ॥१२६॥
एवं सुमेरुणा प्रोक्ता प्राह सूर्यप्रभं जया ।
त्वयैषा सर्वभार्याणां भर्त्तव्योपरिचारिणी ॥१२७॥
सर्वास्योऽभिमतस्यान्यभ्यन्ताव्येषा भविष्यति ।
इत्यादिष्टं तवाप्यद्य देव्या गौर्या प्रसन्नया ॥१२८॥