सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 457, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 457

आसीत्सूर्यप्रभस्यात्र संग्रामः श्रुतशर्मणा।
दामोदरेण च समं प्रभासस्याहवोऽभवत् ॥१९॥
महोत्पातेन सार्कं च सिद्धार्थो युयुधे सदा।
प्रहस्तो ब्रह्मगुप्तेन सङ्क्रमेन च बीतभीः ॥२०॥
प्रज्ञाढ्यश्चन्द्रगुप्तेनाप्यक्रमेण प्रियङ्करः।
युयुधे सर्वदमनः सहैवातिबलेन च ॥२१॥
धुरन्धरेण युयुधे स कुञ्जरकुमारकः।
अन्ये महारथाश्चान्यैरयुध्यन्त पृथक्पृथक् ॥२२॥
तत्र पूर्वं महोत्पातः प्रतिहत्य शरैः शरान्।
सिद्धार्थस्य धनुश्छित्त्वा जघानाश्वांससारथीन् ॥२३॥
विरथः सोऽपि सिद्धार्थो धावित्वा तस्य तं रुषा।
अयोदण्डेन महता साश्वं रथमचूर्णयत् ॥२४॥
ततस्तं पादचारी स सिद्धार्थं पादचारिणम्।
बाहुयुद्धेन धरण्यां महोत्पातम्पातयत् ॥२५॥
यावच्चेच्छति निष्पेष्टुं स तं तावत्स खेचरः।
भगेन रक्षितः पित्रा प्रोत्थाय प्रययौ रणात् ॥२६॥
प्रहस्तब्रह्मगुप्तौ चाप्यन्योन्यं विरथीकृतौ।
करणैः खड्गयुद्धेन युध्यते स्म पृथग्विधैः ॥२७॥
प्रहस्तश्छासिनिर्मूनचर्माणं करणक्रमात्।
युक्त्या तं पातयामास ब्रह्मगुप्तं भुवस्तले ॥२८॥
पतितस्य शिरस्तस्य स यावच्छेत्तुमिच्छति।
तावन्निवारितो दूरात्पित्रास्य ब्रह्मणा स्वयम् ॥२९॥
सुता रक्षितुमायाता यूयं न प्रेक्षितुं रणम्।
इत्युक्त्वा दानवाः सर्वे देवान्निजघ्नुस्तदा ॥३०॥
तावद्वीतभयश्छिन्नधन्वानं हतसारथिम्।
जघान हृदये विद्ध्वा प्रद्युम्नास्त्रेण संङ्क्रमम् ॥३१॥
प्रज्ञाढ्यश्चन्द्रगुप्तं च पदातिं रथवांस्तयात्।
पदातिं खड्गयुद्धेन न्यवधीत्कृतमस्तकम् ॥३२॥
ततः पुष्णवशत्रुश्च स्वममात्यं धनञ्जयम्।
प्रज्ञाढ्ये योजयामास युद्धं चासीत्तयो क्षमम् ॥३३॥