सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 455, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 455

४२० कथासरित्सागर
इति पुष्यनिधोपाख्यानतो मूढबुद्धिः।
सपदि विपदमाप प्राङ्महासेनभूपः।
इति च स गुणशर्मा धैर्यमेकं सहायं।
कृतमतिरवगम्य प्राप्तवानृद्धिमग्र्याम् ॥२५१॥
एव कथां स्वसचिवस्य मुखादुदारां।
सूर्यप्रभो निशि निशम्य स वीतभीतेः।
वीरो महासमरसागरमुत्तितीर्षु-
रुत्साहमभ्यधिकमाप शनैश्च निद्रये ॥२५२॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके षष्ठस्तरङ्गः।

सप्तमस्तरङ्गः
सूर्यप्रभचरितम्: अन्तिमं युद्धम्
ततः सूर्यप्रभः प्रातरुत्थाय सचिवैः सह।
दानवादिवलैः सर्वैर्युतो युद्धभुवं ययौ ॥१॥
आययो श्रुतशर्मा च विद्याधरबलैर्वृतः।
आजग्मुश्च पुनर्द्रष्टुं सर्वे देवासुरादयः ॥२॥
सैन्ये द्वे अपि ते व्यूहावर्धचन्द्रौ च चक्रतुः।
प्रावर्त्तत ततो युद्धं बलयोरुभयोस्तयोः ॥३॥
ससाध्वसमभिधावन्तो निकृन्तन्तः परस्परम्।
पत्रास्ता प्रजविनो युध्यन्ते स्म शरा अपि ॥४॥
कोशानानप्रनिर्यताः सुदीर्घाः पीतशोणिताः।
लोलाः खड्गलसा रेजुः कृतान्तरसना इव ॥५॥
शूरोत्कृष्टक्रमाम्भोजसम्पतच्चञ्चत्खड्‌गहतिः ।
राजहंसक्षयायासीत्तदाहवमहासुरः ॥६॥
उत्प्लद्भिः पतद्भिश्च निर्लूनैः शूरमूर्धभिः।
कृतान्तकन्दुकक्रीडासभिमा समिवाबभौ ॥७॥
क्षतजासेकनिर्धूतधूलिध्मान्ते रणाजिरे।
महारथानामभवद्वन्द्वायुद्धान्यमर्षिणाम् ॥८॥