सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 449, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 449

४१४ कथासरित्सागर
तच्छ्रुत्वा गुणशर्मा तं प्रत्युवाच यथातथ भो ।
सुलक्षणाय ईदृश्या ह्याकुबेरशुभं कुतः ॥२०९॥
इत्यूचिवानप्रसङ्गेन पृष्टस्तस्मै शशंस सः ।
प्रत्यङ्गं तिलकादीनां फलं स्त्रीपुंसयोः पृथक् ॥२१०॥
यदा च गुणशर्माणं तं सा दृष्ट्वैव सुन्दरी ।
इत्येष पातु दृष्ट्यैव चकोरीवेन्दुमुत्सुका ॥२११॥
ततोऽग्निदत्तो विजने गुणशर्माणमाह तम् ।
महाभाग वदाम्येतां कल्यां ते सुन्दरीमहम् ॥२१२॥
मा गा विदेशं तिष्ठेह गृहे मम यथासुखम् ।
एतत्तद्वचनं श्रुत्वा गुणशर्माप्युवाच तम् ॥२१३॥
सत्यमेवं कृते किं किं न सौख्यं मम किं तु माम् ।
मिथ्याराजावमानाग्नितप्तं प्रीणाति नैव तत् ॥२१४॥
कान्ता चन्द्रोदयो वीणा पञ्चमध्वनिरित्यमी ।
ये मन्दयन्ति सुखितांस्तुषितान्यधयन्ति ते ॥२१५॥
जाया च स्वरसा रक्ता भवेदव्यभिचारिणी ।
अवशा पितृवत्ता तु स्यादशोकवती यथा ॥२१६॥
इतः प्रवेशानिकटा सा किं चोज्जयिनी पुरी ।
तद्वृद्धया स नृपो जातु मम कुर्यादुपद्रवम् ॥२१७॥
तत्परिभ्रम्य तीर्थानि प्रक्षाल्याजमकल्बिषम् ॥
शारीरमेतन्त्यक्ष्यामि भविष्याम्यथ निर्वृतः ॥२१८॥
इत्युक्तवन्तं प्रत्याह सोऽग्निदत्तो विहस्य तम् ।
तवापि मोहो यत्रेवृत्तत्रान्यस्य किमुच्यताम् ॥२१९॥
अज्ञावमानाद्दानिः का वद शुद्धाशयस्य ते ।
पङ्को हि नभसि क्षिप्तः क्षप्तुः पतति मूर्धनि ॥२२०॥
राजैव सोऽचिरात्प्राप्स्यत्यविशेषज्ञताफलम् ।
मोहान्धमविवेकं हि धीदिपराय न छेदते ॥२२१॥
किं चाशोकवतीं दृष्ट्वा वैरस्यं स्त्रीषु यत्तव ।
सतीं दृष्ट्वा न किं तासु श्रद्धां बध्नासि च रुदाणम् ॥२२२॥
निकटोञ्जयिनी वा चेत्तन्न दास्याम्यहं तथा ।
यथा त्वामिह तिष्ठन्तं नैव ज्ञास्यति कश्चन ॥२२३॥