सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 439, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 439

४०४ कथासरित्सागर

विस्मितांश्चाब्रवीत्सभ्यान्यायं मे गुणशर्मणः।
शृणुतेति ततस्तं स गुणशर्मा व्यजिज्ञपत् ॥१३४॥
भृत्योऽहं त्वं प्रभुस्तद्वौ व्यवहारः कथं समः।
अधितिष्ठासनं पश्चाद्यदिच्छसि तथाविधम् ॥१३५॥
इति धीरेण तेनोक्तो मन्त्रिभिश्च प्रबोधितः।
अभ्यास्ते स्मासने राजा पुनः सभ्यानुवाच च ॥१३६॥
विदितं वावदेतद्वो मन्त्रिणो यत्क्रमागतम्।
विहाय गुणशर्मायं तावदात्मसमः कृतः ॥१३७॥
श्रूयतां मम चैतेन कीदृग्दूतगतागतैः।
गौडेश्वरेण कृतैक्यं द्रोहं कर्तुमचिन्तयत् ॥१३८॥
इत्युक्त्वा वर्णयामास तत्तेभ्यः स महीपतिः।
यदशोकवती तस्मै जगाद रचितं मृषा ॥१३९॥
योऽप्यारम्भवसनाक्षेपस्तया तस्य मृषोदितः।
निष्कास्य लोकान्ताप्तेभ्यः सोऽप्युक्तस्तेन भूभुजा ॥१४०॥
ततः स गुणशर्मा तमुवाचासत्यमीदृशम्।
देव केनासि विज्ञप्तं तन्मित्रं केन निर्मितम् ॥१४१॥
तच्छ्रुत्वैव नृपोऽवादीत्पाप सत्यं न चेदिदम्।
चरुभाण्डान्तरस्थं तत्कथं ज्ञातं विषं त्वया ॥१४२॥
प्रज्ञया ज्ञायते सर्वमित्युक्ते गुणशर्मणा।
अशक्यमेतदित्यूचुस्तद्वेषेणान्यमन्त्रिणः ॥१४३॥
देव तत्त्वमनन्विष्य वक्तुमेव न ते क्षमम्।
प्रभुश्च निर्विचारश्च नीतिज्ञैर्न प्रशस्यते ॥१४४॥
इत्यस्य वदतो भूयः स राजा गुणशर्मणः।
धावित्वा छुरिकाघातं ददौ धृष्ट इति ब्रुवन् ॥१४५॥
तस्मिन्प्रहारे चरणप्रयोगात्तेन वञ्चिते।
अन्ये तु प्रहरन्ति स्म वीरे तस्मिन्नृपानुगाः ॥१४६॥
स चापि युद्धकरणैर्वञ्चयित्वा कृपाणिकाः।
गुणशर्मा समं तेषां सर्वेषामप्यपाहरत् ॥१४७॥
बबन्ध चैतानन्योऽन्यं केशपाशेन वेष्टितान्।
कृत्वा चरणयुक्त्यैव चित्रद्युतिशितलाघवः ॥१४८॥