कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 437, कुल 1079 में से
संदर्भ में पढ़ें४०२ कथासरित्सागर
यदि पल्लविका नात्र प्रावेक्ष्यत्तत्स निश्चितम्।
अध्यवसिष्यत्पापो मामित्येवं वृत्तमद्य मे॥११९॥
इत्युक्त्वा सा नृपं राज्ञी विरराम ररोद च।
आदावसत्स्ववचनं पश्चाज्जाता हि कुस्त्रियः॥१२०॥
राजा च स तदाकर्ण्य जज्वल झटिति क्रुधा।
स्त्रीबन्धु प्रत्ययो हन्ति विचारं महतामपि॥१२१॥
अब्रवीच्च स कान्तां स्वां समाश्वसिहि सुन्दरि।
तस्यावश्यं करिष्यामि द्रोहिणो वधनिग्रहम्॥१२२॥
किं तु युक्त्या स हन्तव्यो भवेदपयशोऽन्यथा।
स्यात् हि यत्पञ्चकृत्वो दत्तं मे तेन जीवितम्॥१२३॥
त्वदास्कन्दनदोषश्च लोके वक्तुं न युज्यते।
इत्युक्ता तेन राज्ञा सा राज्ञी तं प्रत्यभाषत॥१२४॥
अवाच्य एव वोढव्यस्तेदसाञ्चाप्योऽस्य सोऽपि किम्।
यो गीतेश्वरसख्येन प्रभुद्रोहे समुद्यतः॥१२५॥
एवमुक्ते तया युक्तमुक्तमित्यभिधाय सः।
ययौ राजा महासेनो निजमास्थानसंसदम्॥१२६॥
तत्र सर्वे समाजग्मुर्दर्शनायास्य भूपतेः।
राजानो राजपुत्राश्च सामन्ता मन्त्रिणस्तथा॥१२७॥
तावच्च गुणशर्मापि गृहाद्राजकुलं प्रति।
आगा मार्गे च सुबहून्यनिमित्तान्यवैक्षत॥१२८॥
वामस्तस्माभवत्काकः श्वा वामाद्दक्षिणं ययौ।
दक्षिणोऽहिरभूद्वामः सस्कन्धश्चास्फुरद् भुजः॥१२९॥
अशुभं सूचयन्त्येतान्यनिमित्तानि मे ध्रुवम्।
तन्ममैवास्तु यत्किञ्चिन्मा भूद्राज्ञस्तु मत्प्रभोः॥१३०॥
इत्यन्तश्चिन्तयंस्सोऽथ नृपस्यास्थानमाविशत्।
मा स्याद्राजकुले किञ्चिद्विरुद्धमिति शङ्कितः॥१३१॥
प्रणम्यानोपविष्टं च न तं राजा स पूर्ववत्।
अभ्यनन्ददपश्यत्तु तिर्यग्वक्रोपेक्षया दृशा॥१३२॥
विमतन्ति तस्मिंश्च गुणशर्मणि शङ्किते।
स उत्थायाथनाद्राजा तस्य स्कन्धे उपाविशत्॥१३३॥