कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 435, कुल 1079 में से
संदर्भ में पढ़ेंतं दृष्ट्वा तत्र सूदस्तमाप्तो राजानमभ्यधात्।
महं से साधयाम्यत्सत्कार्यं मार्गक्षय कृथाः॥१०४॥
इत्युक्त्वा बन्धयित्वा च स दूतं गुणशर्मणः।
सूदो मन्त्रस्रुतिं , रक्षन्निहागाद्विषदायकः॥१०५॥
तन्मध्ये च पलाय्यैव सतो निर्गत्य बन्धनात्।
गुणशर्म्मान्तिक दूतस्तदीयः सोऽप्युपागमत्॥१०६॥
तेनाधिगतवृत्तान्तेनोक्त्या सर्वं स दर्शितः।
सूपो महानसेजस्माकं प्रविष्टो गुणशर्मणे॥१०७॥
ततो ज्ञात्वा स धूर्त्तेन सूपकृद् ग्राह्यत्युना।
विषदानोद्यतस्तेन शुम्यमावेद्य भातिष्ठत्॥१०८॥
अथ तस्येह सूदस्य मातुभार्ये तथानुजाम्।
वार्त्तामन्वेष्टुमायातान्गुणशर्मा स बुद्धिमान्॥१०९॥
बुद्ध्या तेन हृता तस्य भार्या माता च सोऽस्य तु।
भ्राता पलायितो दैवात्प्रविष्टन्मम मन्दिरम्॥११०॥
तेन तद्वर्ण्यते यावत्सर्वं मे शरणार्थिना।
गुणशर्मा स मदासगृहं तावत्प्रविष्टवान्॥१११॥
तं दृष्ट्वा मां च श्रुत्वा भ्राता सूदस्य तस्य सः।
भयान्निर्गम्य मत्पाश्र्वाभि जागे क्व पलायितः॥११२॥
गुणशर्मापि तं दृष्ट्वा स्वभृत्यैः पूर्व्वदर्शितम्।
संभूत्सद्यः सवेमक्ष्यो विमृशन्निव किञ्चन॥११३॥
गुणशर्मन्किमर्थैवंमन्यादृक्ष इवेक्ष्यसे।
इत्यपृच्छमहं तं च जिज्ञासुविजने ततः॥११४॥
सोऽप्य स्वीकर्त्तुकामो मामाह स्मोद्भेदशङ्कितः।
देवि त्वदनुरागाग्निदग्धोऽहं तद्भजस्व माम्॥११५॥
धन्यथाहं न जीवेयं देहि मे प्राणदक्षिणाम्।
इत्युक्त्वा वासक शून्ये पादयोरपतन्म मे॥११६॥
ततोऽहं पादमाक्षिप्य सम्भ्रमादायदुत्थिता।
साम्टूत्याय तनाहमबलामिलिङ्गिता बलात्॥११७॥
सत्तार्ण च प्रविष्टा मे शती पल्लविकान्तिकम्।
तां दृष्ट्वैव स निष्क्रम्य गुणशर्मा भयाद् गतः॥११८॥