कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 433, कुल 1079 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर
ततस्तयोर्भवितव्यो प्रकोपात्खड्गहस्तयोः ।
आकुलत्वेन चस्खाल महासेननृपः क्षितौ ॥८९॥
स्खलितेऽस्मिन्प्रहरतश्चक्रेण भुजमच्छिनत् ।
राज्ञो विक्रमशक्तेः स गुणशर्मा सखड्गकम् ॥९०॥
पुनश्च हृदि हत्वा तं परिघेण न्यपातयत् ।
तच्चोत्थाय महासेनो राजा दृष्ट्वा तुतोष सः ॥९१॥
किं वच्मि पञ्चमं वारमिदं प्राणा इमे मम ।
विप्रवीर त्वया दत्ता इति तं चावदन्मुहुः ॥९२॥
ततो विक्रमशक्तेस्तत्तस्य सैन्यं सराष्ट्रकम् ।
आजक्राम महासेनो हतस्य गुणशर्मणा ॥९३॥
आक्रम्य चान्यान्नृपतीन्सहाये गुणशर्मणि ।
आगत्योज्जयिनीं तस्यां स राजा सुखितस्तदा ॥९४॥
सा त्वशोकवती राज्ञी सोत्सुका गुणशर्मणः ।
विरराम न निर्बन्धप्रार्थनातो दिवानिशम् ॥९५॥
स तु नाङ्गीचकारैव तदकार्यं कथञ्चन ।
देहपातमपीच्छन्ति सन्तो नाविनयं पुनः ॥९६॥
ततोऽशोकवती बुद्ध्वा निश्चयं तस्य वैरतः ।
एकदा व्याजखेदं सा कृत्वा तस्थौ रुषन्मुखी ॥९७॥
प्रविष्टोऽथ महासेनस्तामालोक्य तथास्थिताम् ।
पप्रच्छ राजा किमिदं प्रिये केनासि कोपिता ॥९८॥
ब्रूहि तस्य करोम्यद्य धर्मं प्राणैश्च निग्रहम् ।
इति ब्रुवाणं तं भूपं राज्ञी कृच्छ्रादिवाह सा ॥९९॥
येन मेऽपकृतं तस्य नैव त्वं निग्रहे क्षमः ।
न स तादृक्तदेतेन मिथ्योद्घाटितेन किम् ॥१००॥
इत्युक्त्वा सानबन्धे सा राज्ञि मिथ्येवमब्रवीत् ।
आर्यपुत्रातिनिर्बन्धो यदि ते वच्मि तच्छृणु ॥१०१॥
अयं गौडेश्वरात्प्राप्तुं तेन संस्थाप्य संविदम् ।
गुणशर्मा तव द्रोहं कर्तुमेतच्चिकीर्षति ॥१०२॥
त्वं च रूपनिबन्धाद्धि गौडं कारयितुं नृपम् ।
विससर्ज स दूतं स्वं गुप्तमाप्तं द्विजाधमः ॥१०३॥