कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 419, कुल 1079 में से
संदर्भ में पढ़ें१८६ कथासरित्सागरे
षष्ठस्तरङ्गः
सूर्यप्रभचरितम्
ततः स रात्रावस्त्रीकः शयनस्थो रणोन्मुखः।
सूर्यप्रभः स्वसचिवं वीतभीतिमभाषत ॥१॥
निद्रा मे नास्ति तत्काञ्चित्सत्त्ववीराश्रितां सखे।
कथामपूर्वामाख्याहि रात्रावस्यां विनोदिनीम् ॥२॥
एतत्सूर्यप्रभवचो वीतभीतिर्निशम्य स।
यथाज्ञापयसीत्युक्त्वा कथां कथितवानिमाम् ॥३॥
गुणशर्मणो ब्राह्मणस्य कथा
अस्त्यलङ्कृतिरेतस्यां पृथ्व्यामुज्जयिनी पुरी।
रत्नेरशेषैर्निचिता सुनिर्मलगुणोन्मिषैः ॥४॥
तस्यामभून्महासेनो नाम राजा गुणप्रियः।
कलानां चैकनिलयः सूर्येन्दूभयरूपभृत् ॥५॥
तस्याशोकवती नाम राज्ञी प्राणसमाभवत्।
यस्या रूपेण सदृशी नासीदन्या जगत्त्रये ॥६॥
तया देव्या समं तस्य राज्यं राज्ञोऽनुशासतः।
गुणशर्माभिधानोऽभूद्विप्रो भृत्यस्तथा प्रियः ॥७॥
स च शूरोऽतिरूपश्च वेदविद्यान्तगो युवा।
कलाशस्त्रास्त्रविद्विप्रः सिषेवे तं नृपं सदा ॥८॥
एकदाऽन्तःपुरे नृत्तकथाप्रस्तावतः स तम्।
राजा राज्ञी च पार्श्वस्थं गुणशर्माणमूचतुः ॥९॥
सर्वज्ञस्त्वं न चेलाऽत्र तदस्माकं कुतूहलम्।
नर्तितुं चेद्विजानासि तत्प्रसीदाथ दर्शय ॥१०॥
एतच्छ्रुत्वा स्मितमुखो गुणशर्मा जगाद तौ।
जानामि किं तु तद्युक्तमस्ति नृत्तं न संसदि ॥११॥
हासनं मूढनृत्तं तद्यावद्यं शास्त्रगर्हितम्।
तत्रापि राज्ञः पुरतो राज्ञ्याश्च धिगहो त्रपा ॥१२॥
इत्युक्तवन्तं तं राजा गुणशर्माणमत्र सः।
प्रत्युवाच तया राज्ञ्या प्रद्यमाणः श्रुतहसात् ॥१३॥