कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 41, कुल 1079 में से
संदर्भ में पढ़ें२४ कथासरित्सागर
श्वश्र्वा ततो रचितमङ्गलसंविधान-
सम्पूजितः ससचिवः श्वशुरेण भूयः ।
तेनैव पुत्रसहितेन सह प्रतस्थे
कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥१६०॥
प्राप्याथ तां प्रमदनिर्भरवत्सराज-
बद्धोत्सवां स जननीनयनामृतौघः ।
रत्नप्रभां दधदथ स्वपुरीं विवेश
हेमप्रभेण ससुतेन सहानुगीतः ॥१६१॥
वत्सेश्वरोऽपि सह वासवदत्तया तं
पादानतं समभिनन्द्य सुतं वधूं च ।
हेमप्रभं सतनयं विभवानुरूपं
सम्बन्धिनं समभिपूजयदूर्जितश्रीः ॥१६२॥
अथ विद्याधरराजे तस्मिन्नापृच्छ्य वत्सराजादीन् ।
उत्पत्य नभः ससुते गच्छति हेमप्रभे स्वपुरम् ॥१६३॥
नरवाहनदत्तोऽसौ रत्नप्रभया समदमच्छुकया ।
सह सुखितस्तदनेकैर्दिवसैः सखिभिर्निजैर्युक्तः ॥१६४॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके
प्रथमस्तरङ्गः ।
द्वितीयस्तरङ्गः
रत्नप्रभाकथा (पूर्वानुवृत्ता)
एवं विद्याधरीं भार्यां भव्यां रत्नप्रभां नवाम् ।
तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ॥१॥
नरवाहनदत्तस्य स्थितस्य प्रातराययुः ।
दर्शनार्थमुपद्वारं सचिवा गोमुखादयः ॥२॥
द्वारस्थया क्षणहृदपु तेष्वत्रावेदितेष्वथ ।
प्रविष्टेष्वादृतश्चैतां द्वारस्थां रत्नप्रभाम्यभात् ॥३॥
द्वारमेषां न रोद्धव्यमिह प्रविशतां पुनः ।
मार्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥४॥