कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 409, कुल 1079 में से
संदर्भ में पढ़ें१७४ कथासरित्सागरे
एकः कुवलयश्यामः क्षत्रे विश्वावसोर्बुधात्।
जातो भद्रङ्करो नाम द्वितीयश्च नियन्त्रकः ॥६९॥
उत्पन्नो जम्भकक्षेत्रे भौमादग्निनिभप्रभः।
तृतीयः कालकोपाख्यः क्षेत्रे दामोदरस्य च ॥७०॥
जातः शनैश्चरात्कृष्णः कृष्णः कपिलमूर्धजः।
वातश्शोणोडुपतेः क्षेत्रे महेन्द्रसचिवाद्¹ ग्रहात् ॥७१॥
नाम्ना विक्रमशक्तिश्च चतुर्थः कनकद्युतिः।
त्रयोऽतिरथयूथाधिपतीनामेषु यूथपाः ॥७२॥
चतुर्थस्तु महावीरस्तदभ्यधिकविक्रमः।
ते च प्रभासं दिव्यास्त्रैर्योधयामासुरुद्यताः ॥७३॥
तानि नारायणास्त्रेण प्रभासोऽस्त्राण्यवारयत्।
तेषां च ह्येकैकस्याष्टङ्खरखोऽच्छिनद्धनुः ॥७४॥
ततस्तत्प्रहितान्प्रासागवादीन्प्रतिहृत्य सः।
हृताश्वसारथीन्सत्त्वस्थिरपानकरोच्च तान् ॥७५॥
तद्दृष्ट्वा विससर्जान्याञ्छ्रुतशर्मा द्रुतं दश।
रथयूथपयूथाधिपतीन्विद्याधराधिपान् ॥७६॥
दमास्यं नियमास्यं च स्वरूपसदृशाकृती।
केतुमालेन्द्ररक्षत्रे जातौ द्वावश्विनोः सुतौ ॥७७॥
चित्रं संक्रमं चैव पराक्रममथाक्रमम्।
संमर्दनं मर्दनं च प्रमर्दनविमर्दनौ ॥७८॥
क्षेत्रजान्मकरन्दस्याप्यष्टौ वसुसुतान्समान्।
तेष्वागतेषु चाद्यास्तेऽप्यारोहन्नपरान् रथान् ॥७९॥
तैश्चतुर्दशभिः क्रूरैर्मिशितैः शरवर्षिभिः।
निष्कम्प एव युयुधे प्रभासश्चित्रमेककः ॥८०॥
क्षतं सूर्यप्रभावेणाप्यूहाग्रात् त्यक्तसङ्गरौ।
स कुम्भीरकुमारश्च प्रहस्तश्च धृतायुधौ ॥८१॥
उत्पत्य व्योममार्गेण धवलश्यामलाकृती।
तस्योपजग्मतुः पार्श्वं रामकृष्णविवापरौ ॥८२॥
१ बृहस्पतेरित्यर्थः ।