सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 405, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 405

[Header]
१७२ कथासरित्सागर

प्रभासः पत्रिणा छत्रोवच्छितादद्भुतलाघवः ॥३९॥
एवं प्राङ्निहितानेकप्रवीरोत्थेन मन्युना ।
प्रभासो निग्रहं कालकम्पनस्य व्यधादिव ॥४० ॥
दृष्ट्वा च तं हतं विद्याधरेन्द्रं मनुजासुरैः ।
नादश्चक्रे विषादश्च जग्रमे सपदि खेचरैः ॥४१॥
ततो विद्युत्प्रभो नाम कारञ्जरगिरीश्वरः ।
प्रभासमभ्यधावत्त क्रुधा विद्याधराधिपः ॥४२॥
तस्यापि युध्यमानस्य प्रभासः स महाध्वजम् ।
छित्त्वा चकर्त कोदण्डमात्तमात्तं पुनं पुनः ॥४३॥
ततः स माययोत्पत्य च्छन्नो विद्युत्प्रभो नभः ।
प्रभासस्योपरि ह्रीतो ववर्षासिगदादिकान् ॥४४॥
प्रभासोऽपि विधूयास्त्रैस्तदायुधपरम्पराम् ।
कृत्वा प्रकाशनास्त्रेण प्रकाशं च नभश्चरम् ॥४५॥
दत्त्वा महास्त्रमाग्नेयं सत्तेजोदग्धमम्बरात् ।
विद्युत्प्रभं भूमितले गतजीवमपातयत् ॥४६॥
तद्दृष्ट्वा श्रुतधर्मा तानभिजगाव महारथान् ।
पश्यतानेन निहतौ द्वौ महारथयूथपौ ॥४७॥
तत्किं सहध्वं सम्भूय युष्माभिर्हं यतामयम् ।
उच्छ्रुत्वाष्टौ रथाः क्रुद्धा प्रभासं पर्यवारयन् ॥४८॥
एकः कूटकाद्रीन्द्रनिवासी रथयूथपः ।
ऊर्ध्वरोमंति विख्यातो विद्याधरमहीपतिः ॥४९॥
धरणीधरशैलाधिपतिर्विक्रेशनामिधः ।
विद्याधराजामधिपो द्वितीयश्च महारथः ॥५० ॥
इन्दुमाली तृतीयश्च लीलापर्वतकेतनः ।
वीरोऽग्रिमरथयूथस्य पतिर्विद्याधरप्रभुः ॥५१॥
मध्याद्रिनिवासी च काकाण्डक इति श्रुतः ।
रथयूथपती राजा चतुर्थः खेचरोत्तमः ॥५२॥
निकूटाद्रिपतिर्नाम्ना दर्पबाहुश्च पञ्चमः ।
षष्ठश्च मूर्तवहनो नाम्नाञ्जनगिरीश्वरः ॥५३॥