सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 397, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 397

१६४ कथासरित्सागर
देशरूपवयश्चेष्टाविज्ञानादिविभेदतः ।
भिन्ना गुणा वरस्त्रीणां नैका सर्वगुणान्विता ॥१०५॥
कर्णाटलाटसौराष्ट्र मध्यदेशाविदेशजाः ।
योषा देशसमाचारे रञ्जयन्ति निजेनिजः ॥१०६॥
काश्चिद्धरन्ति सुवृत्तैः शारदेन्दुनिभैर्मुखैः ।
अन्याः कनककुम्भाभैः स्तनैरुन्नतसंहतैः ॥१०७॥
स्मरसिंहासनप्रख्यैरपरा जघनस्थलैः ।
इतराश्चतरैरङ्गैः स्वसौन्दर्यमनोरमैः ॥१०८॥
काचित्काञ्चनगौराङ्गी प्रियङ्गुश्यामलापरा ।
अन्या रक्तावदाता च दृष्ट्वैव हरतीक्षणे ॥१०९॥
काचित्प्रत्यग्रसुभगा काचित्सम्पूर्णयौवना ।
काचित्प्रौढत्वसुरसा प्रसरद्विभ्रामोज्ज्वला ॥११०॥
हसन्ती शोभते काचित्काचित्कोपेऽपि हारिणी ।
व्रजन्ती गजवत् कापि हंसवत् कापि राजते ॥१११॥
आलपन्त्यमृतेनेव काचिदासिश्चति श्रुतिम् ।
सभ्रूविलासं पश्यन्ती स्वभावाद् भाति काचन ॥११२॥
नृत्तेन रोचते काचित् काचिद्गीतेन राजते ।
वीणादिवादनज्ञानेनान्या कान्ता च रोचते ॥११३॥
काचित् बाह्यरताभिज्ञा काचिदाम्यन्तरप्रिया ।
प्रसाधनोज्ज्वला काचित् काचिद्वैदग्ध्यशोभिता ॥११४॥
भर्तृचित्तग्रहाभिज्ञा चान्या सौभाग्यमश्नुते ।
कियद्वा वच्मि बहवोऽप्यन्योन्यासां पृथग्गुणाः ॥११५॥
तदेवमिह कस्याश्चिद् गुणः कोऽपि वरस्त्रियः ।
न तु सर्वगुणाः सर्वास्त्रैलोक्यामपि काश्चन ॥११६॥
अहो नानारसास्वादसम्व्यवस्थाम् किलेश्वराः ।
माहृत्याप्याहरन्त्येव भार्या नवनवाः सदा ॥११७॥
उत्तमास्तु न वाञ्छन्ति परदारान् कथञ्चन ।
तन्नायंयुक्तरूपैय स्याद्दोपो नेर्ध्या च नः क्षमा ॥११८॥
एवमाद्या मनोवत्या प्रोक्ता सूर्यप्रभाङ्गनाः ।
अन्या मदनसेनाद्यास्तत्तदोचुः कथाः क्रमात् ॥११९॥