कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 393, कुल 1079 में से
संदर्भ में पढ़ेंरक्ताम्बुपूरभरितं न परं समराङ्गणम्।
यावत्सन्ध्याकृतपदं ययौ व्योमापि शोणताम् ॥९१॥
कबन्धैः सह भूतेषु सन्ध्यान्नृत्तोद्यतत्विष ।
संहृत्य युद्धं ययतुः स्वनिवेशाय तद्वले ॥९२॥
श्रुतशर्मबलं तस्मिन्दिने वीरा हतास्त्रयः ।
त्रयस्त्रिंशत्प्रवीरांस्तु बले सूर्यप्रभे हताः ॥९३॥
तत बान्धवमित्रादिनिधनेन सुदुर्मना ।
सूर्यप्रभस्त्रियामां तामासीदन्तःपुरैर्विना ॥९४॥
अनिद्र एव सचिवैः सह सङ्ग्रामसत्कथा ।
तास्ताः कुर्वन्निनायतां पुनर्युद्धोन्मुखो निशाम् ॥९५॥
स्त्रीषु युद्धचर्चा सूर्यप्रभचर्चा च
तद्भार्याश्च मिलन्ति स्म हतबान्धवदुःखिताः ।
एकत्र तस्यां रजनावन्योन्याश्वासनागताः ॥९६॥
रुदितावसरेष्वत्र कथा नानाविधा व्यधुः ।
स्त्रीणां न स क्षणो यत्र न कथा स्वपराश्रया ॥९७॥
तत्प्रसङ्गेन तत्रैका राजपुत्रीदमब्रवीत् ।
आश्चर्यमार्यपुत्रोऽद्य कथं सुप्तो निरञ्जनः ॥९८॥
तच्छ्रुत्वा व्याजहाराया सङ्ग्रामे स्वजनक्षयात् ।
दुःखितो ह्यार्यपुत्रोऽद्य रमते स्त्रीजने कथम् ॥९९॥
ततोऽपरा ब्रवीति स्म प्राप्नोत्यभिनवां यदि ।
वरकन्यां स तद्दुःखं विस्मरेत्यधुनैव तत् ॥१००॥
अथेत्तराब्रवीन्मैवं यद्यपि स्त्रीषु लम्पटः ।
तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथाविधः ॥१०१॥
इति तासु वदन्तीषु जगादैका सविस्मयम् ।
धूत स्त्रीलम्पटः कस्मादार्यपुत्रो यतादृशः ॥१०२॥
आहितास्वपि भार्यासु भूयसीषु नवां नवां ।
अनिशं राजपुत्रीर्यस्तं शृङ्गैश्चैव तुष्यति ॥१०३॥
एतच्छ्रुत्वा विदग्धैका तासु नाम्ना मनोरथी ।
उवाच श्रूयतां येन राजानो बहुवल्लभाः ॥१०४॥