सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 391, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 391

५५ कथासरित्सागर
तौ चक्रवालनिर्घातौ युध्यमानौ चिरं क्रमात् ।
अन्योन्यचूर्णितरथावभूतां पादचारिणौ ॥७६॥
असिचक्रधरौ द्वावप्याकोपाभिमुखौ च तौ।
खड्गाहतिद्विधाभूतसूर्धानौ भुवि पेततुः ॥७७॥
विपक्षौ वीक्ष्य तौ वीरौ विपण्णेऽपि बलद्वये ।
रणाग्रमाययौ विद्याधरेन्द्रः कालकम्पनः ॥७८॥
राजपुत्रोऽभ्यधावच्च तं प्रकम्पननामकः ।
स कालकम्पनेनाशु क्षणात्तेन न्यपात्यत ॥७९॥
तस्मिन्निपतिते तस्य पञ्चान्यऽभ्यपतन् रथाः ।
जालिकश्चण्डदत्तश्च गोपकः सोमिलोऽपि च ॥८०॥
पितृशर्मा च सर्वे ते शराँस्तस्मिन् सहासृजन्।
स तु पञ्चापि तान्कालकम्पनो विरथीकृतान् ॥८१॥
जघान युगपद्भिष्मशराचैर्हृदि पञ्चभिः।
प्रणष्टुं खेचरास्तेन व्यषीदन् मनुजासुराः ॥८२॥
ततोऽभ्यधावन्नपरे चत्वारस्त रथाः समम् ।
उमसकः प्रथस्तश्च विस्रम्भकधुरन्धरौ ॥८३॥
स तानप्यवधीत्कालकम्पनो लीलयाखिलान्।
तथैव धावितानन्यान्क्रुद्धांश्चिजघान सः ॥८४॥
तेजिकं गेयिकं चैव वेगिलं शालिलं तथा।
भद्रङ्कुरं दण्डिनं च भूरिसैन्यान् महारथान् ॥८५॥
अपरांश्च पुनः पञ्च सोऽवधीन्मिलितान्युधि ।
भीमभीषणकुम्भीरविकटाक्षविलोचनान् ॥८६॥
तद्दृष्ट्वा कदनं कालकम्पनेन कृतं रणे।
भयावत्सुगणो नाम राजपुत्रोऽस्य सम्मुखः ॥८७॥
स तेन तावद्विदधे समं युद्धमुभावपि ।
हताश्वसारथी यावद्विरथौ तौ बभूवतुः ॥८८॥
ततस्तं खड्गयुद्धेन सुगणं पादचारिणम्।
स कालकम्पनः पादचार्येव भुवि जघ्निवान् ॥८९॥
तावच्च मानुषविद्याधराणां सममाहवम्।
असम्भाव्यं विलोक्येव क्षिप्रमस्तं प्रययौ रविः ॥९० ॥