कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 387, कुल 1079 में से
संदर्भ में पढ़ें[Page Header]
१५६ कथासरित्सागर
[Main Text]
आगाच्च भगवान्ब्रह्मा सावित्र्यादिभिरन्वितः ।
मूर्तेर्वेदैश्च शास्त्रैश्च निखिलैश्च महर्षिभिः ॥४७॥
आजगाम च देवीभिर्लक्ष्मीकीर्तिजयादिभिः ।
धृतचक्रामुषो देवः पक्षिराजरथो हरिः ॥४८॥
सभार्यः कश्यपोऽप्यागादादित्या वसवोऽपि च ।
यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास्तथासुराः ॥४९॥
तैरावृते नभोभागे शस्त्रसम्पातदारुणे¹।
प्रावर्त्तत महानादः संग्रामः सेनयोस्तयोः ॥५०॥
दिक्चक्रे बाणजालेन घनेनाच्छादिते तदा ।
अन्योऽन्यशर सङ्घर्षजातानलतडिल्लते ॥५१॥
शस्त्रक्षतगजाश्वौघरक्तधारावपूरिता ।
वीरकायबृहद्ग्राहा निर्ययुः शोणितापगाः ॥५२॥
नृत्यत्सु सरसं रक्ते नभतो वोत्सवाय सः ।
शूराणां फेरवाणां च भूतानां चाभवद्रणः ॥५३॥
शान्ते तुमुलसंग्रामे निहतासंख्यसैनिके ।
लक्ष्यमाणे विभागे च शनैः स्वपरसैन्ययोः ॥५४॥
प्रतिपक्षप्रवीराणां प्रयुद्धानां सुमेरुतः ।
नामावौ श्रूयमाणे च क्रमात्सूर्यप्रभादिभिः ॥५५॥
पूर्वं सुबाहोर्नृपतेर्विद्याधरपतेस्तथा ।
अट्टहासाभिधानस्य द्वन्द्वयुद्धमभून्महत् ॥५६॥
सुचिरं युध्यमानस्य तस्य विद्धस्य सायकैः ।
अट्टहासोऽर्धचन्द्रेण सुबाहोरच्छिनच्छिरः ॥५७॥
दृष्ट्वा सुबाहुं निहतं मुष्टिकोऽभ्यापतत्क्रुधा ।
सोऽपि तेनाट्टहासेन भुवि बाणहतोऽपतत् ॥५८॥
मुष्टिके निहते भूयः प्रलम्बो नाम भूपतिः ।
अभिभाष्याट्टहासं तं शरवर्षैरयोधयत् ॥५९॥
अट्टहासोऽपि तत्सैन्यं हत्वा हत्वा च मर्मणि ।
प्रलम्बमपि तं वीरं रथपृष्ठे न्यपातयत् ॥६०॥
[Footnotes]
१ शस्त्राणां संपातेन दारुणः = भीषणः।