कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 379, कुल 1079 में से
संदर्भ में पढ़ें४८ कथासरित्सागर
या च सम्बन्धिनी तस्य प्रशस्तस्यौषधीगुहा ।
तेन प्रभासस्यात्मीया वश्या सास्य सकिङ्करा ॥२४२॥
तदधश्चास्ति पाताले मन्दिरं प्रबलस्य तत् ।
यत्र द्वादश सन्त्यस्य मुख्यभार्याः स्वलङ्कृताः ॥२४३॥
विविधानि च रत्नानि नानाप्रहरणानि च ।
चिन्तामणिश्च लक्षं च योधानां तुरगास्तथा ॥२४४॥
तत्प्रभासस्य सम्बन्धि सर्वमस्य पुरोजितम् ।
सर्वोदृशं प्रभासोऽयं नास्त्येद किञ्चिदद्भुतम् ॥२४५॥
एवं ततो मुनिकुमारक्तो निशम्य सूर्यप्रभप्रभृतयः समयप्रभासाः ।
रत्नाद्यवाप्तुमथ संश्रयमुस्तदैव पातालमङ्गं प्रबलवेश्मबिलप्रवेष्ठम् ॥२४६॥
तेम प्रविश्य परिगृह्य च पूर्वपत्नी—
श्चिन्तामणिं च तुरगानसुरांश्च योधान् ।
निर्गत्य प्राप्तनिखिलद्रविणः स एकः
सूर्यप्रभं किमपि तोषितवान् प्रभासः ॥२४७॥
अथ समयसुनीथः सप्रभासः सुमेरु—
प्रभृतिभिरनुयातो राजभिर्मन्त्रिभिश्च ।
द्रुतमभिमतसिद्धिं प्राप्य सूर्यप्रभोऽसौ
पुनरपि निजसेनासन्निवेशं तमागात् ॥२४८॥
तत्र सोऽसुरनराधिपादिषु स्वस्ववासकगतेषु तेषु तम् ।
रात्रिशेषमनयत् कुशास्तरे सन्निगृह्य रणदीक्षितः पुनः ॥२४९॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
सूर्यप्रभलम्बके तृतीयस्तरङ्गः ।
चतुर्थस्तरङ्गः
रणभूमौ सूर्यप्रभस्य युद्धसज्जा
ततः प्रातः समं सैन्यैः स सुमेरुतपोवनात् ।
तस्मात्सूर्यप्रभः प्रायाच्छत्रून्विजिगीषया ॥१॥
सनिवासस्य निकटं त्रिकूटाद्रेश्चाप्य च ।
भावासितोऽभूत्तत्रत्यं बलेनोत्सार्य तद्बलम् ॥२॥