सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 373, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 373

१४२ कथासरित्सागर

तैरागतैः सह्याने समं स सचिवान्वितः ।
निशि सूर्यप्रभः प्रायाच्चन्द्रपादाचलं प्रति ॥१९८॥
गच्छतां च श्रमात्तेषामुतस्थुर्मार्गरोधिनः ।
यक्षगुह्यककूष्माण्डा विघ्ना नानायुधोद्यताः ॥१९९॥
कांश्चिच्छस्त्रैर्विमोह्यास्थान् कांश्चित् संस्तभ्य विद्यया ।
चन्द्रपादगिरिं तं ते प्रापुः सूर्यप्रभादयः ॥२००॥
तत्रैषां तद्गुहाद्वारप्राप्तानां शाङ्करा गणाः ।
एत्य प्रवेशं रुरुधुर्विचित्रविकृताननाः ॥२०१॥
एतैः सह न योद्धव्यं कुप्येद्धि भगवान् हरः ।
तस्मादष्टसहस्रेण तमथ वरदं स्तुमः ॥२०२॥
तेनैव ते प्रसीदन्ति तद्गणा इत्यवोचत ।
स सुवासकुमारस्तानथ सूर्यप्रभाविकान् ॥२०३॥
ततस्तथेति सर्वे ते समेत्य हरमस्तुवन् ।
स्वामिस्तुतिप्रसन्नाश्च तान् वदन्ति स्म ते गणाः ॥२०४॥
मुक्तैषा भो गुहास्माभिर्गृहीतास्यां महौषधीः ।
सूर्यप्रभेण स्वेनैत्या न प्रवेष्टव्यमात्मना ॥२०५॥
प्रभासः प्रविशत्वेतामेतस्य सुगमा ह्यसौ ।
एतद्गणवचः सर्वे ते तथेत्यनुमेनिरे ॥२०६॥
ततः प्रविशतस्तस्य प्रभासस्य तदैव सा ।
गुहा बह्वन्धकारापि सुप्रकाशा किमप्यभूत् ॥२०७॥
उत्थाय च महाघोररूपा अप्यत्र राक्षसाः ।
चत्वारः निष्ठुरा ऊचुः प्रणता प्रविशेति तम् ॥२०८॥
अथ प्रविश्य संगृह्य दिव्याः सप्तौषधीः स ताः ।
प्रभासो निर्गतः सूर्यप्रभाय निखिला ददौ ॥२०९॥
महाप्रभावाः सप्तैताः सिद्धाः सूर्यप्रभस्य ताः ।
ओषध्य इति तत्कालं गगनादुदनादयत् ॥२१०॥
तच्छ्रुत्वा मुदिताः सूर्यप्रभाद्याः सर्व एव ते ।
स्वसैन्यमायुः क्षिप्रं सुमेर्वास्पदमश्रितम् ॥२११॥
तत्रापृच्छत् सुनीतोऽथ तं सुवासकुमारकम् ।
मुने सूर्यप्रभं हित्वा प्रभासः किं प्रवेशितः ॥२१२॥