सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 37, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 37

९२ कथासरित्सागर
जगाद च मया ज्ञेयं ज्ञाता विद्याप्रभावतः ।
इहागता सुता सर्वं वृत्तान्तं चात्र वेद्म्यहम् ॥१४६॥
चक्रवर्तिविमानं हि भाव्यग्रेऽमुष्य तादृशम् ॥१४७॥
अनुमन्यस्व तद्द्रक्ष्यस्यचिरादेवैतमात्मजम् ।
रत्नप्रभावधूयुक्तं युवराजमिहागतम् ॥१४८॥
एवं वत्सेशमभ्यर्थ्य तेनानुमतवाञ्छितः ।
सपुत्रं कल्पयित्वा तद्विमानं निजविद्यया ॥१४९॥
तमारोप्य नृपानन्दसूनुं रत्नप्रभायुतम् ।
नरवाहनदत्तं च सहितं गोमुखादिभिः ॥१५०॥
यौगन्धरायणेनापि पित्रानुप्रषितेन च।
हेमप्रभो निनाय स्वं पुरं काञ्चनशृङ्गकम् ॥१५१॥
नरवाहनदत्तश्च ददर्श प्राप्य तत्पुरम् ।
श्वाशुरं काञ्चनमयं हेमप्राकारभासुरम् ॥१५२॥
रश्मिप्रतानैर्निर्यद्भिर्बहरुकृतमिवाभितः ।
प्रसारितानेकभुजं जामातृप्रीतिसम्भ्रमात् ॥१५३॥
तत्र तां विधिवत्तस्मै राजा हेमप्रभो ददौ ।
रत्नप्रभां महारम्भो हरयेऽब्धिरिव श्रियम् ॥१५४॥
प्रायच्छद्रत्नराशींश्च तदा तस्मै स भास्वरान् ।
प्रवीप्तानेकवीबाहुवलित्रिभ्रमशालिनः ॥१५५॥
सोत्सवस्य पुरे चास्य राज्ञो वित्तानि वर्षतः ।
स्रग्धवस्त्रा इव बभुः सपताका गृहा अपि ॥१५६॥
नरवाहनदत्तश्च निर्व्यूढोद्वाहमङ्गलः ।
दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ॥१५७॥
रेमे च दिव्यान्युद्यानवापीदेवकुलानि सः ।
पश्यंस्तया समादृत्य तद्विद्याबस्ततो नमः ॥१५८॥
एवं च तत्र कतिचिद्दिवसानुषित्वा
विद्याधराधिपपुरे स वधूसहायः ।
वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं
यौगन्धरायणमतेन मतिं चकार ॥१५९॥