सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 361, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 361

३३० कथासरित्सागर
तस्यास्ति मोहिनी नाम विद्या तेन स दुर्जयः।
नूनं सा स्थापिता तेन प्रधानस्य रिपोः कृते॥११०॥
अत प्रयुक्ता नैतेषु स्वद्वयस्येषु सम्प्रति।
सकृच्च हि सा तस्य फलदा न पुनः पुनः॥१११॥
गुरावेव हि सा तेन प्रभावावेक्षणाय भोः।
प्रयुक्ताऽभूवत क्षापस्तेन वसोऽस्य तादृशः॥११२॥
तच्चिन्त्यमेतद्विद्यानां प्रभावो हि दुरासदः।
तत्कारणं च भवता पृच्छ्यतां भगवान् मयः॥११३॥
अस्याग्रे किमूहं वच्मि कः प्रदीपो रखेः पुरः।
एवं सुमेरुणा सूर्यप्रभस्योक्ते मयोऽब्रवीत्॥११४॥
सत्यं सुमेरूमोक्तं ते सङ्क्षेपाच्छृणु वच्म्यहम्।
'अव्यक्तात् प्रभवन्तीह तास्ताः शक्त्यनुशक्तयः॥११५॥
तत्रोद्गतः प्राणशक्तेर्नादो बिन्दुपधाश्रितः।
विद्यादिमन्त्रतामेति परतत्त्वकलान्वितः॥११६॥
साक्षां च मन्त्रविद्यानां ज्ञानेन तपसापि वा।
सिद्धांश्या वा सिद्धानां प्रभावो दुरतिक्रमः॥११७॥
तत्पुत्र सर्वविद्यास्ते सिद्धा द्वाभ्यां तु हीयसे।
मोहिनीपरिवर्त्तिन्यौ न विद्ये साधिते त्वया॥११८॥
याज्ञवल्क्यश्च त वेत्ति तद् गच्छ प्रार्थयस्व तम्' ।
एव मयोक्त्या तस्यायेंययौ सूर्यप्रभोऽन्तिकम्॥११९॥
स मुनिस्तं च सप्ताहं निवास्य भुजगह्रदे।
अग्निमभ्ये भ्यहं चैव तपश्चर्यमकारयत्॥१२०॥
ददौ सोढाद्बिदंशस्य सप्ताहाच्चास्य मोहिनीम्।
विद्यां विसोढवह्न्यर्चि भ्याहाद्विपरिवर्त्तिनीम्॥१२१॥
प्राप्तविद्यस्य भूयोऽपि दक्षिणाद्रुतप्रधानम्।
तस्यादिदेश स मुनिः स तथेत्यकरोञ्च तत्॥१२२॥
तत्तारणं च महापद्मविमानं तस्य कामगम्।
अभूदुपगतं सूर्यप्रभस्य गगनचरम्॥१२३॥
अष्टोत्तरेण पत्राणां पुराणां च शतेन यत्।
असङ्ख्य महारत्ननानारूपविनिर्मितम्॥१२४॥