कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 355, कुल 1079 में से
संदर्भ में पढ़ें[Page 324]
कथासरित्सागर
ततस्तेजःप्रभो नाम तं जिघृक्षुरुपागमत् ।
सर्पं विद्याधराधीशः सोऽन्यक्षेपि तथाऽमुना ॥६६॥
ततस्तं दुष्टदमनो नाम विद्याधरेश्वरः ।
उपागात्सोऽपि निःश्वासेनाप्यबलेन विक्षिपे ॥६७॥
ततो विरूपघण्टाख्यः खेचरेन्द्रस्तमभ्यगात् ।
सोऽपि तेन तथैवास्तः१ श्वासेन सुगहेरया ॥६८॥
अयाम्यधावतां तद्वद्वङ्कारबिज्ज्मकौ ।
राजानौ युगपत्कौ च दूरे श्वासेन सोऽक्षिपत् ॥६९॥
एवं विद्याधरधीशाः षण्मात्सर्यैऽपि तेन ते।
क्षिप्ताः कथम्चिदुत्तस्थुरर्जरामारूषूजिते २॥७०॥
ततो दर्पेण तं सर्पं श्रुतशर्माभ्युपेयिवान् ।
जिधृक्षुः सोऽपि तेनात्र विक्षिपे श्वासमारुतैः ॥७१॥
मदूरपतितः सोऽथ पुनरुत्थाय धावितः ।
तेन दूरतरं नीत्वा श्वासेनाक्षेपि भूतले ॥७२॥
विरूक्षे चूर्णिताङ्गेऽस्मिन्नुत्थिते श्रुतशर्मणि ।
सूर्यप्रभोऽह्वयैद्ग्रहणे प्रेषितोऽभूत्सुमेरुणा ॥७३॥
पश्यतैषोऽप्यजगरं ग्रहीतुमिममुत्थितः ।
अहो इमे निर्विचारा मर्कटा इव मानुषाः ॥७४॥
अन्येन क्रियमाणं यत्पश्यन्त्यनुहरन्ति तत् ।
इति विद्याधराः सूर्यप्रभं ते जहसुस्तदा ॥७५॥
तेषां प्रहसतामेव गत्वा सूर्यप्रभेण सः ।
स्तिमितास्यो गृहीतश्च दृष्टश्चाजगरो द्विधात् ॥७६॥
तत्क्षणं प्रतिपेदे स भुजङ्गस्तूणरत्नताम् ।
मूर्ध्नि सूर्यप्रभस्यापि पुष्पवृष्टिर्दिवोऽपतत् ॥७७॥
सूर्यप्रभाद्ययं तूणरत्नं सिद्धमिदं तव ।
तद्गृहाणतदित्युच्चैर्दिव्या वागुदभूत्तदा ॥७८॥
ततो विद्याधरा ग्लानिं ययुः सूर्यप्रभोऽग्रहीत् ।
तूणं मयसुनीथौ च सुमेरुश्चाभजन्मुदम् ॥७९॥
१ विक्षिप्तः; अशु रूपने बत्तुः । २ प्रस्तराघातेन भग्नेः ।