कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 353, कुल 1079 में से
संदर्भ में पढ़ें१२२ कथासरित्सागरः
तस्यां चोत्पद्यते रत्नं शुक्लपक्षे चक्रमन्तिमम् ।
तूर्णं विद्याधरा यान्ति तत्कृते चात्र तां तिथिम् ॥५२॥
एव सुमेरुणा प्रोक्ते सैय्यंविधिना दिनम् ।
नीत्वा प्रातर्ययुस्तत्ते वल्मीकं सबला रथे ॥५३॥
तत्र ते दक्षिणे सानौ हिमाद्रेर्निनदद्बलाः ।
निविष्टा ददृशुः प्राप्तान् बहून् विद्याधराधिपान् ॥५४॥
ते च विद्याधरास्तत्र कुण्डेष्वादीपितामलाः ।
होमप्रवृत्ता अभवञ्जपव्यग्राश्च केचन ॥५५॥
यतः सूर्यप्रभोऽप्यत्र वह्निकुण्डं महद्व्यधात् ।
स्वयं जज्वाल तत्राग्निस्तस्य विद्याप्रभावतः ॥५६॥
तद्दृष्ट्वा तुष्टिरूपेदे सुमेरोर्मत्सरं पुनः ।
विद्याधराजादुद्भूतवैकस्तमभाषत ॥५७॥
विद्याधरेन्द्रतां त्यक्त्वा धिक्सुमेरोऽनुवर्तसे ।
सूर्यप्रभाभिधमिमं कथं धरणिगोचरम्¹ ॥५८॥
तच्छ्रुत्वा स सुमेरुस्तं सकोपं निरभर्त्सयत् ।
सूर्यप्रभं च तन्नाम पृच्छन्तमिवमब्रवीत् ॥५९॥
अस्ति विद्याधरो भीमनामा यस्य च गेहिनीम् ।
ब्रह्माकामयत स्वैरं तत एषोऽभ्यजायत ॥६०॥
गुप्तं यद्ब्रह्मणो जातो ब्रह्मगुप्तस्तदुच्यते ।
अत एवैतवेतस्य स्वजन्मसदृशं वचः ॥६१॥
इत्युक्त्वाकारि तेनापि वह्निकुण्डं सुमेरुणा ।
सत्त सूर्यप्रमस्तेन सहाहौषीत्तदाशनम् ॥६२॥
क्षणाच्च भूमिविवरादुज्जगामातिभीषणः ।
²कस्मादजगरो महान् ॥६३॥
तं प्रहीतुमधावत्स विद्याधरपतिर्मदात् ।
ब्रह्मगुप्ताभिधानोऽथ सुमेरुर्मैनं गहित³ ॥६४॥
स तेनाजगरेणाशु मुखफूत्कारवायुना ।
नीत्वा हस्तशते क्षिप्तो न्यपतज्जीर्णपर्णवत् ॥६५॥
१ मर्त्यं मानुषमित्यर्थः । २ तत्क्रूरत्वात् क्रूरं वदति । ३ मूलपुस्तके पादार्थं
मुद्रितमस्ति ।