सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 347, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 347

१५ कथासरित्सागरं
तथाप्युन्मूलनीयो मे श्रुतशर्मा स निश्चितम्।
परदारापहरणे छद्मप्रागल्भ्यवाञ्छठः ॥८॥
एव कृतप्रतिज्ञश्च गन्तु तद्विजयाय सः।
लग्नं निश्चितवान् दृष्ट गणकैः सप्तमेऽहनि ॥९॥
ततस्तं निश्चितं ज्ञात्वा गृहीतविजयोगमम्।
द्रढयित्वा पुनर्भूषा प्राह सूर्यप्रभं मयः ॥१०॥
सत्यं कृतोद्यमस्त्वं चेत्तद्वदामि मया तदा।
मायां प्रदर्श्य नीत्वा ते पातालं स्थापिताः प्रियाः ॥११॥
एवं त्वं विजयोद्योगं करोषि रभसादिति।
नैवमेव तथा ह्यग्निर्ज्वलेद्वातेरितो यथा ॥१२॥
तदेहि यामः पातालं प्रियास्ते दर्शयामि ताः।
एवं मयवचः श्रुत्वा ननन्दुः सर्व एव ते ॥१३॥
प्राक्तनं च तेनैव प्रविश्य विवरेण ते।
जग्मुश्चतुर्थं पाताल मयासुरपुरःसराः ॥१४॥
तत्रैकस्तो वासगृहान्मयः सूर्यप्रभाय ताः।
भार्या मदनसेनाद्या आत्मीयासी समर्पयत् ॥१५॥
गृहीत्वा तास्तमान्याश्च पत्नीस्ताः सोऽसुरात्मजाः।
ययौ सूर्यप्रभो द्रष्टुं प्रह्लादं मयवाक्यतः ॥१६॥
मयाच्छ्रुतवरप्राप्तिः प्रणतं तं च सोऽसुरः।
ज्ञातायुधोऽथ जिज्ञासुः कृतवक्रोऽधमभ्यधात् ॥१७॥
धृतं मया दुराचार मत्कन्या ह्यददा त्वया।
भ्रान्ताजिता मज्ज्येष्ठतास्तत्त्वां हन्म्यद्य पश्य माम् ॥१८॥
तच्छ्रुत्वा निर्विकारस्तं पश्यन् सूर्यप्रभोऽब्रवीत्।
मच्छरीरं त्वदायत्तमविनीतं प्रणाधि माम् ॥१९॥
इत्युक्तवन्तं प्रह्लादो विहस्य तमुवाच सः।
प्रक्षितोऽसि मया मापदर्पल्पोऽपि नास्ति ते ॥२० ॥
वरं गृहाण तुष्टोऽस्मीत्युक्तस्तेन तथेति सः।
भक्तिं गुरुषु धर्मे च वव्रे सूर्यप्रभो वरम् ॥२१॥
ततस्तुष्टेषु सर्वेषु तस्मै सूर्यप्रभाय सः।
प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥२२॥