कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 341, कुल 1079 में से
संदर्भ में पढ़ें११० कथासरित्सागर
यश्च हयग्रीवास्यो विकटाक्षश्चासुरावभूतां द्वौ।
स्थिरबुद्धिमहाबुद्धी उत्पन्नावस्य ताविमौ सचिवौ ॥३८३॥
अन्येऽप्यस्य य एते श्वसुराः सचिवादिबान्धवा ये च।
तेऽप्यवतीर्णा असुरा यैरिन्द्राद्या पुरा जिता बहुशः ॥३८४॥
तद्युष्माकं पक्षः पुनरप्येवं क्रमाद् गतो वृद्धिम्।
धीरा भवत समृद्धिं प्राप्स्यथ धर्मादनभिच्युताः परमाम् ॥३८५॥
इति वदति कश्यपर्षौ दाक्षायण्यः¹ किलास्य पत्न्योऽत्र।
अदितिप्रमुखाः सर्वा माध्यन्दिनसवनसमये आजग्मुः ॥३८६॥
दत्त्वाशिषं मयादिषु नमत्सु भर्तुः कृपान्तिकात्तासु।
तास्वथ शक्रोऽत्रागात् सलोकपालोऽपि तं मुनिं द्रष्टुम् ॥३८७॥
वन्दितसदारकश्यपमुनिचरणो वन्दितो मयाद्यैश्च।
सोऽथ सरोषं पश्यन् सूर्यप्रभमुक्तवानथ शक्रः ॥३८८॥
'एषोऽर्भकः स जाने विद्याधरचक्रवर्त्तिताकामः।
तदहो स्वल्पेन कथं सन्तुष्टो मेन्द्रतां किमर्थयते' ॥३८९॥
तन्श्रुत्वैव मयस्तं जगाद 'देवेन्द्र ! तत्त्वयीन्द्रत्वम्।
परमेश्वरेण निर्मितमादिष्टं चास्य खेचरेश्वरत्वम् ॥३९०॥
इति मयवचनान्मघवा स तदा विहसन्नुवाच सामर्षः।
'अत्यल्पं हि तपस्या सुमहज्जगत्याकृतेरुपम्येति' ॥३९१॥
अथ स मयोऽप्यवदत् श्रुतशर्मा यत्र खेचरेन्द्रत्वे।
योग्यस्तत्रासंशयमाकृतिरस्यायमर्हतीन्द्रत्वम्' ॥३९२॥
इत्युक्तवते तस्मै मयाय कुपितः स वज्रमुद्यम्य।
मघवोत्ससर्ज कश्यपमुनिरकरोच्चाथ कोपहुङ्कारम् ॥३९३॥
धिक्कारमुखरताम्रेवदने कोपं ययुश्च दित्याद्याः।
तत इन्द्रः शापभयादुपविशत्संहृतायुधोऽनमत् ॥३९४॥
प्रणिपत्य पादयोरथ दारयुतं तं सुरासुरप्रभवम्।
कश्यपमुनिं प्रसाद्य च विज्ञापितवान् कृताञ्जलिः शक्रः ॥३९५॥
श्रुतशर्मणे मया यद् भगवन्विद्याधराधिराज्यत्वम्।
दत्तं तदेष हर्तुं सूर्यप्रभवोद्यतोऽधुना तस्य ॥३९६॥
१ दक्षप्रजापतेः कन्यकाः ।