कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 333, कुल 1079 में से
संदर्भ में पढ़ें६२ कथासरित्सागर
तत्र त्रिलोकसुन्दर्या नवसङ्गमसोत्कया।
स स्निग्धमुग्धया साक तया रात्रिमुवास ताम् ॥१२८॥
प्रातश्च सन्तुष्टच्छेन प्रह्लादप्रमुखैर्वृतः ।
निमन्त्र्य सप्तमं निन्ये पाताल स स्वमन्दिरम् ॥१२९॥
तत्रासुरपति सोऽस्मै सुतां नाम्ना मनोवतीम् ।
ददौ सरत्नाभरणां तप्तजाम्बूनदद्युतिम् ॥१३०॥
तत सूर्यप्रभ सोऽत्र नीत्वाधिकसुख दिनम् ।
मनोवतीनवाश्लेषसुखिनीमनयन्निशाम् ॥१३१॥
अपरेद्युश्च स सर्वयुक्त कृतनिमन्त्रणः ।
पातालमनयत् षष्ठ स्व सुमायो सुराधिपः ॥१३२॥
तत्र सोऽपि ददौ तस्मै सुभद्रां नाम कन्यकाम् ।
दूर्वास्तश्यामलाङ्गीं मूर्ति पाञ्चशरीमिव ॥१३३॥
तया सुरतसंभोगयोग्या श्यामयात्र सः।
सहासीत्तदह सूर्यप्रभ पूर्णन्दुवक्त्रया ॥१३४॥
अन्येद्युश्च बली राजा तद्वदेव निनाय तम्।
सूर्यप्रभ स्वपाताल तृतीय सोऽसुरानुग ॥१३५॥
सोऽपि तत्र सुतां तस्मै सुन्दरी नाम दत्तवान् ।
बालप्रवालसच्छायां माधवीमिव मञ्जरीम् ॥१३६॥
स्त्रीरत्नेन समं तेन रेमे सूर्यप्रभोऽत्र सः।
सुरञ्जितसतद्दिवस दिव्यभोगविभूषितम् ॥१३७॥
अपरेऽह्नि मय सोऽपि राजपुत्रं तथैव तम्।
चतुर्थपातालगतं भूयोऽनैषीत् स्वमन्दिरम् ॥१३८॥
विचित्ररत्नप्रासाद निजमायाविनिर्मितम् ।
नव नवमिवाभासमानं लक्ष्म्या प्रतिदणम् ॥१३९॥
तत्र सोऽपि ददौ तस्मै सुमायाख्यां निजां सुताम्।
जगदाश्चर्यरूपां स्वां शक्तिं मूर्त्तिमतीमिव ॥१४०॥
मानुषत्वाच्च तस्मै तां मैवादेयाममन्यत ।
सोऽपि रेमे तया साकमत्र सूर्यप्रभ कृती ॥१४१॥
विद्याविभक्तदेहोऽथ सर्वाभिर्युगपत् सह।
अरंस्तासुरकन्याभिस्ताभि रह नृपात्मज ॥१४२॥