सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 327, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 327

२१६ कथासरित्सागर

स्थितः सूर्यप्रभो नाम रूपेण जितमन्मथः ।
तस्मै गत्वा स्वयं गुप्तमात्मा दत्तः किलैतया ॥२८३॥
गतायामथ चेट्यां तत्सकाशं निशागमे ।
प्रह्लाददुहिताऽयागात् स्वयं तत्र महल्लिका ॥२८४॥
तया सहेर्ष्याकलहं कृत्वा सत्यारम्भात्तनो ।
उद्यतैषा सुखावत्या स्वस्रा दृष्ट्वैव रक्षिता ॥२८५॥
ततश्चान्तः प्रविश्यैव निपत्य शयनीयके ।
स्थिता तया सह स्वस्रा पृष्टवृत्तान्तविग्नया ॥२८६॥
एवं चेट्योः कथां श्रुत्वा प्रविश्यात्र तथैव तौ ।
कलावतीसुखावत्यौ दृष्टे सुप्त्याकृती मया ॥२८७॥
इति प्रभासो यावत्तं वक्ति सूर्यप्रभं रहः ।
तावत्प्रहस्तोऽप्यागात् पृष्टः सोऽप्यब्रवीदिदम् ॥२८८॥
इतो महल्लिकावासगृहं यावदहं गतः ।
तावत्तत्र प्रविष्टा सा सखीभ्यां सह दुर्मनाः ॥२८९॥
अहं तत्रैव चादृश्यो विद्यायुक्तो प्रविष्टवान् ।
दृष्टा मयात्र तस्याश्च सख्यो द्वादश तत्समाः ॥२९०॥
ताश्च सञ्चलपर्यङ्कनिषण्णां परिवृत्य ताम् ।
महल्लिकामुपाविशन्नेका चोवाच तां ततः ॥२९१॥
सखि कस्मादकस्मात्त्वमुद्विग्नेवाद्य दृश्यसे ।
विवाहे प्रस्तुतेऽप्येषा बत का ते विषादिता ॥२९२॥
तच्छ्रुत्वा सविमर्शा सा तां प्रह्लादसुताब्रवीत् ।
को मे विवाहो दत्तास्मि कस्मै केनोदितं तव ॥२९३॥
एवं तयोक्ते सर्वास्ता जगदुर्मिथ्यैतत् त्वम् ।
प्रातर्विवाहो दत्तासि सखि सूर्यप्रभाय च ॥२९४॥
स्वजनन्यै च देव्यैतदद्योक्तं स्वदसन्निधौ ।
अस्माभियोजयन्त्या ते कौतुकप्रतिबन्धनि ॥२९५॥
तद्धन्यासि च यस्यास्त भावी सूर्यप्रभः पतिः ।
यद्रूपसम्पदो निन्द्राति निधिं नष्टाङ्गनाजनः ॥२९६॥
अस्मारं तु विगाताश्चे श्चन्तनी यं वयं परम् ।
तस्मिन् हि भर्त्तरि प्राप्ते त्वमस्मान् विस्मरिष्यसि ॥२९७॥