कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 321, कुल 1079 में से
संदर्भ में पढ़ें१९० कथासरित्सागर
दृष्ट्वैव तद्गतमनास्तथाभूदचलप्रभा ।
आङ्गिकोऽभिनयोऽप्यस्या दृष्ट्वैवाविनयरथा ॥२३८॥
समाप्याथ तयोर्भावं तं द्वयोरप्यसक्यन् ।
प्रेक्षणं चोपसंजह्रुः श्रान्ता राजसुतेति ते ॥२३९॥
सठं सूर्यप्रभं तिर्यक् पश्यन्ती सा महल्लिका ।
पित्रा विसृष्टा वन्दित्वा दानवेन्द्रानगाद्गृहम् ॥२४०॥
दानवेन्द्राश्च ते सर्वे यथास्वमगमन् गृहान् ।
सूर्यप्रभोऽपि स्वावासमाजगाम दिनक्षये ॥२४१॥
प्रदोषे च कलावत्या पुनरागतया सह ।
सुष्वापाम्यन्तरे गुप्तं बहिः सुप्ताखिलानुगः ॥२४२॥
ताव महल्लिका सार्धं वत्सन्दर्शनसोत्सुका ।
तत्राययौ सविस्रम्भमवयस्याद्वयसङ्गता ॥२४३॥
अन्तत्प्रवेष्टुमिच्छन्तीं प्रज्ञाढ्याख्यो ददर्श ताम् ।
सूर्यप्रभस्य सचिवो निद्रया तत्क्षणोज्झितः ॥२४४॥
देवि तिष्ठ क्षण यावत् प्रविश्याभ्यन्तरादहम् ।
निर्गच्छामीति स च तां परिज्ञायोत्थितोऽभ्यधात् ॥२४५॥
रुद्धाः स्म किं बहिः कस्मादद्य चेति सशङ्कया ।
तया पृष्टः स मूढोऽपि प्रज्ञाढ्यो निजगाद ताम् ॥२४६॥
स्वैरं सुप्तस्य सहसैकान्तिकं किं प्रविश्यते ।
सुप्तश्चास्मतप्रभुरसावेको व्रतबशादिति ॥२४७॥
तत्तस्तथा विधत्स्व त्वमित्युक्तः सविलक्षया ।
प्रह्लादवैद्यसुतया प्रज्ञाढ्योऽन्तर्विवेश सः ॥२४८॥
सुप्तां कलावतीं दृष्ट्वा तस्मै सूर्यप्रभाय सः ।
प्रबोध्य स्वैरमाचख्यावागतां तां महल्लिकाम् ॥२४९॥
सूर्यप्रभश्च श्रुत्वा तच्छय्योत्थाय निर्गतः ।
दृष्ट्वा महल्लिकामात्मवृत्तीयामप्यभाषत ॥२५०॥
प्रीता कृतार्थता तामद्ययमभ्यागतो जनः ।
नीयतां स्थानमप्येतदासनं परिगृह्यताम् ॥२५१॥
तत्तस्तरोपविशदाथ सहास्याभ्यां महल्लिका ।
सूर्यप्रभोऽप्युपाविशत्स प्रज्ञाढ्ययुतस्ततः ॥२५२॥